Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 121
________________ दशम उल्लास एकत्रैकपदानुपविष्टौ रूपकानुपासौ । तेनासौ त्रिरूपः । तेनायमनुप्राचानुपाहकतया सन्देहेनैकपदमतिपाद्यतया च व्यवस्थितत्वात् त्रिरूपतया सकरः कथितः । अत्रेदमवघातव्यम्-यत्र शब्दाः परिवृत्ति न सहन्ते स शब्दालकारः; यत्र न तथा सोऽर्थालङ्कारः । मत्र तु केचन सहन्ते केचन न सहन्ते स उभयालङ्करः । यथा पुनरुक्तवदामासः परम्परितरूपक च । [५०५९,२] अर्थस्य तु तत्र वैचित्र्यमुस्करतया प्रतीयत इति तयोरालद्वारमध्ये गणनं कृतमित्यन्यत्रापि बोध्यम् । अथैषामलङ्काराणां दोषाः। अनुमासस्य प्रसिद्ध्यभावः, वैफल्यम् , वृत्चिविरोधः-त्रयो दोषाः । क्रमेण उदा० अर्चनेन तव दिव्यवर्चसा स्यन्दनेन पदमैन्द्रमृच्छति । चन्दनेन तव शैलनन्दने नन्दने च जन एप नन्दति ॥ अत्रार्चनादिना ऐन्द्रपदलाभादिफलं अनुपासानुरोधेनैव प्रतिपादितं न पुनः पुराणादिषु तथामसिद्धिरिति प्रसिद्धिबिरोधः । ___ तथा 'उर्व्यसावत्र ताली'त्यादि । अत्र चानुपासेन चास्य विविच्यमानं न किदि. दपि चारुत्वं प्रतीयते । तथा साधारणधर्माश्रिते न्यूनत्वाधिकत्वं च दोषः । क्रमेणोदा० चण्डालैरिव युष्माभिः साहसं परमं कृतम् । चह्विस्फुलिङ्ग इव भानुरयं चकास्ति ।। तथा अयं पन्नासनासीनश्चयाको विराजते । युगादो भगवान ब्रह्मा विनिर्मित्सुरिव प्रजाः॥ अत्यन्तोत्कृष्टस्योपमानत्वं अपकृष्टस्य उपमेयस्य उपहास एवं पर्यवस्पति । दोषानभिधानमधिकत्वस्येति भावनीयम् । यथा पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपात्रसंनिभः ॥ अत्र पातालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तकदर्थितः इति कष्टत्वम् । स मुनिलाञ्छितो मौञ्जया कृष्णाजिनपर्ट वहन् । विरेजे नीलजीमूतभागाश्लिष्ट इयांशुमान् ॥ स मुनिारदो व्यराजत अशोभत । मौङ्ग्या लाञ्छितश्चिद्वितः कृष्णाजिनरूपं पटं वर्स वहन धारयन् । नीलवर्णस्य जीमूतस्य मेघस्य भागे एकदेशे श्लिष्टः संबद्धः अंशुमान् सूर्य इवेत्यर्थः । अत्रोपमानस्य मौजीस्थानीयस्खडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति न्यूनत्वम् । स पीतवासाः प्रगृहीतशाओं मनोज्ञभीमं वपुराप कृष्णः । - शतहदेन्द्रायुधवग्निशायां संसृज्यमानः शशिनेत्र मेवः ।। धा' इति मु. पु.1

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130