Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
दशम उल्लास विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रतः पुनयंत्र रुचा रुचं स्वामानिन्यिरे वंशकरीग्नीलैः ।। सूर्यस्स रथ्या अश्वाः गरुडायजेन अरुणेन विभिन्नो भेदं पापितो वर्णों वर्ष मेषान् । परितः स्फुरन्त्या रुचा रतैः खां रुचं रथ्या आनिन्यिरे नीताः । कीदृशैः रसैः ? बेशकरीरनीः वंशकलिकावन्नीलवर्णरित्यर्थः । अतद्गुणालद्वारमाह -
तद्रूपाननुहारश्चेदस्य तत् स्यान्तद्गुणः। (का० १३८, ५०) तस्याप्रकृतस्याननुहारोऽग्रहणम् । उदा० -
गाङ्गमम्बु सितमम्बुजा(या)मुनं कजलाभमुभयत्र मन्जतः।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ।। गाझं गङ्गासम्बन्धि जलम् , यामुळे यमुनासम्बन्धि जलम् , सैव प्राचीना, न चीयते वर्द्धते, न चापचीयते नश्यतीत्यर्थः ।
सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।। (का० १३९, उ०) एतेषामलकाराणां भेदेन अन्योऽन्यनिरपेक्षतया शब्दभाग एव अर्थविषय एव उभयं तत्र वा यद् व्यवस्थानं सा संसृष्टिः । तत्र शब्दालङ्कारसंसृष्टियथा - 'तारतारतरै रित्यादि । अर्थालहारसंसृष्टिर्यथा
लिम्पतीव [५० ५८.२ ] तमोऽङ्गानि वर्पतीवाञ्जनं नमः।
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः । अत्र तु तथाविधे उपमोक्षे ।
शब्दालङ्कारयोः संसृष्टिर्यथा- 'हिन्दोलिकेयमिन्दोः कलिके त्यादौ । अनुप्रासो रूपकंच संग्रष्टिं प्रयोजयतः ।
ननु शब्दालक्कारस्य शब्दमात्रवृत्तित्वात् अर्थालङ्कारस्य अर्थवृत्तित्वमिति कथमुभयोरेकत्र . संवष्टिरिति चेत्, न । एकार्थसमवायरूपसम्बन्धेनार्थवृत्तित्वात् ।
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः। (का. १४., पू.) आत्मनि आत्ममात्रेऽविश्रान्तिजुषा अन्मानित्त्वं अनुग्राह्यानुप्राहकत्वं तपः सहर इत्यर्थः । इतरविजातीयसहकारेण चमत्कारकारित्वम् । एतेन संसृष्टेभेदो दर्शितः । यथा -
आने सीमन्तरत्ने' मरकतिनि हते हेमताटङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगशामित्वरीणामरण्ये
राजन् ! गुञ्जाफलानां सज इति शबरा नैव हारं हरन्ति ॥ 5 'सेट' इति मु. पु.। २ भाव” 'सीमम्तवि' इति पाउः ।
का०प्र०१३

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130