Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काध्यप्रकाशखण्डन
यथा
वेत्रत्वचातुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गाः सहेलं यदि नापतिष्यन् को वेदयिष्यन्नवचम्पकानि ॥ वधूनां कर्णाग्रतः गण्डतले आगतानि नवचम्पकानि को वेदयिष्यन् न कोऽपि, यदि सहेलं सलीलं भृङ्गा भ्रमरा नापतिष्यन् । वधूनां कीदृशीनाम् ! वेत्रत्वचातुल्या रुचिर्यासां तास्तथा तासां इत्यर्थः । निमित्तान्तरजनितापि नानात्यप्रतीतिः प्रथम प्रतीतं अभेदेन व्युदसितुं उत्सहते । साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनं विरोधीति न्यायात् । न चैतद्रूपकं प्रथमातिशयोक्तिी तयोराहार्यारोपरूपत्वात् । अन्वयस्य स्वनाहार्यत्वात् । यथा
धामधर्षि नवमैन्दवं महः प्रेक्ष्य संभ्रमवशादसाध्वसः। वीतिहोत्र इति गहिनीस्तनावाचकर्ष कलशौ धियाध्वगः ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपद्धत्तिरेकस्यानेकगोचरा ॥ (फा० १३५) अन्यस्तत् कुर्वतः कार्य अशक्यस्यान्यवस्तुनः।
तथैव करणं चेति विशेषत्रिविधः स्मृतः ॥ (का. १३६.) एकात्मा एकस्वभावः । तथा च एकमेव वस्तु एकेन समावेन युगपद् अनेकेषु वर्तते तथैव तेनैव प्रकारेणेत्यर्थः । क्रमेणोदा०
दिवमप्युपजा(या)तानामाकल्पमनल्पगणगुणा येषाम् |
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ।। ते कवयः कथमिव न वन्द्याः येषां गिरो वाण्यः जगन्ति [प० ५८,१] रमयन्ति । कीदृशानाम् ? खगं गतानाम् । आकल्पं फल्यं व्याप्य अनल्पा बहुतरा गुणगणा येषां कवीनामित्यर्थः।
सा वसइ तुझा हिअए स चित्र अच्छीसु सा अ वअणेसु । अम्हारिसाण सुंदर ओआसो णत्थि पावाणं ॥ स्फुरदद्धतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्याविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ।। स्वां सजता विधिना नूतनो मनोभूः कामः ससृजे । सविता सूर्यः, बृहस्पतिर्गुरुः । त्वां कीदृशम् ? स्फुरकिसदद्भुतं रूपं यस्य तम् । उक्तः प्रताप एव ज्वलनोऽमिर्यस्मात् तम् । अनवद्या निर्दोषा विद्या यस्य तं इत्यर्थः । अन्नान्यस्य करणं शाब्दम् ।
खमुत्सृज्य गुणं योगादत्युज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ (फा० १३७) अत्र स्वगुणतिरस्कार एव स्वगुणत्यागः । 'भन्यस्मकुर्वतः' इति मु. पू. पाठः ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130