Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 116
________________ काव्यप्रकाशखण्डन हरति - सिंहिकासुतः सिंहः तस्मात् संत्रस्तो भीतः शशः शीतांशुं चन्द्रं आश्रितः, तं शशं अन्यः सिंहिकासुतो राहुः साश्रयं सचन्द्रं जनसे भक्षितवानित्यर्थः । अत्र त्राणरूपफलाभावे अन्येन प्रासरूपोऽनर्थः। महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयायिणी स्यातां तनुत्वेऽप्यधिकं तु तत् ॥ (फा० १२८) आश्रिताश्रययोर्महतोरपि विषये तदपेक्षया तनू अपि आश्रयायिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया । यथाक्रमं यावधिकतां बजतः । तदेतद् द्विविधमधिकम् । क्रमेणोदा० - अहो विशालं भूपाल ! भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ युगान्तकालप्रतिसंहतात्मने जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विपस्तपोधनाभ्यागमसंभवा मुदः॥ तत्र प्रथमं उदाहरति - हे भूपाल ! भुवनत्रितयस्य उदरं मध्ये अहो आश्चर्ये विशालं विस्तीर्ण यद् यस्मात् अत्र मातुं अशक्योऽपि ते तव यशोराशिर्माति परिमातीत्यर्थः । अत्र यशोराशेर्षस्तुमः काचित्कत्वेन भुवनयापेक्षया तनुत्वेऽपि तदुत्कर्षविवक्षया तन्मानमेव भुवनत्रयविशालत्वे हेतुः । द्वितीयमुदाहरति - कैटभद्विषो विष्णोर्यस्यां तनौ शरीरे जगन्ति चतुर्दशभुवनानि सवि. कार्स सावकाशं आसत स्थितानि तत्र तनौ नारदस्तस्याभ्यागमेनागमनेन संभवा उत्पन्ना मुदः पीतयः न ममुः अधिका बभूधुरित्यर्थः । यत्र तपोधनागमनप्रभवमुदोऽन्यशरीरवृत्तिस्वेनाधिक्यात् कैटभारिशरीरस्य तनुत्वेऽपि मुदः प्रकर्षविवक्षया तच्छरीरमानमेव हेतुतयोपात्तम् । अत्रान्यो विशेषो गुरुनाना मत्कृतवृहट्टीकातो द्रष्टव्यः । प्रतिपक्षमशक्तेन प्रतिकतुं सिरस्क्रिया। __ या तदीयस्य तत् स्तुत्यै प्रत्यनीकं तदुच्यते ॥ (का. ११५) प्रतिपक्षं [प० ५७.१ ] तिरस्कर्तुमित्यन्वयः । ततस्तुत्यै प्रतिपक्षस्तुत्यै । यथा - त्वं विनिर्जितमनोभवरूपः सा च सुन्दरि ! भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादिव कामः ॥ अनुशयादिव क्रोधादित्यर्थः । विधीयते यद् बलवत्सजातीयोपलम्भनैः । तिरस्करणमन्यस्य सन्मीलितमिति स्मृतम्। ॥ (? का० १३० ) मुद्रितपुस्तकेषु तु एषः श्लोको निन्नरूपेण लभ्यते - समेन लक्ष्मणा वस्तु पस्तुना यनिगृह्यते । निजेनागन्तुना धापि तन्मीलितमिति स्मृतम् ॥ (का० १३.)

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130