Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 122
________________ १०० काव्यप्रकाशखण्डन । स कृष्णः मनोज्ञं भीमं च वपुः शरीरमाप प्राप्त [१०६०, १] वान् । पीतं वासो वस्त्रं यस्प सः। प्रगृहीतं शार्क धनुर्येन सः । क इव १ शशिना चन्द्रेण संसृज्यमानः मेघ इव । कीदृशो मेघः ? शतह्रदा विद्यत् तदेव यदिन्द्रायुधं तद्वान् तद्युक्तः इत्यर्थः । अत्रोपमेयस्य शङ्खादेरनिर्देशात् शशिनो ग्रहणमतिरिच्यत इति । तथोपमानोपमेययोर्लिङ्गवचनभेदो दोषः । साषारणधर्मस्यैकमात्रगतत्वेन प्रतीतेः । तथा चिन्तारत्वमिव च्युतोऽसि करतो धिङ् मन्दभाग्यस्य मे । अत्र च्युत इत्युपमेयमात्रेणान्वीयते पुंल्लिङ्गत्वात् । यथा बा - Raat भक्षिता देव शुद्धाः कुलवधूरिव । अत्र शुद्धा इत्युपमेयमात्रेणान्वीयते । लिङ्गभेदो विद्यमानोऽत्राप्रधानम् । यत्र नानात्वेऽपि लिङ्गवचनयोः साधारणधर्मो नेकमात्रगामी भवति तत्र नायं दोषः । यथा - गुणैरनध्यैः प्रथितो वैरिव महार्णवः । भत्र लिङ्गभेदेऽपि विशेषणान्वयस्या विशेषाद् दोषाभावः ॥ तद्वेषो सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ तदूद्वेषः परां शोभां दधते । तदीया विश्रमा विलासा इव । वेषः कीदृशः ? अन्याभिः स्त्रीभिः असदृशः । पुनः कीदृशः ! मधुरतया भृतः पूर्णः । विभ्रमा अपि मधुरतां बिमर्तीति मधुरताभृत् ते मधुरताभृत इत्यर्थः । वचनभेदोदाहरणमिदम् । तथोपमायां कालपुरुष विध्यादिभेदोऽपि दोषः उद्देश्यप्रतीतेरस्खलितरूपतया विश्रान्तेरभावात् । यथा - अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती । पश्चिमाद्यामिनीयामात् प्रसादमित्र चेतना ॥ कुमुद्वती स्त्री काकुत्स्थात् अतिथिं पुत्रं आप । केव ? चेतना प्रसादमिवेत्यर्थः । अत्र चेतना प्राप्नोति न पुनरापेति कालभेदः । तथा [प्रत्यग्रमञ्जन विशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुर दंशुकान्ता ।] विभ्राजसे मकरकेतनमर्चयन्ती, बालग्रवालविटपप्रभवा लतेव । मकरकेतनं कामं अर्चयन्ती पूजयन्ती एवं राजसे । कीदृशी ! प्रत्यनं सद्यस्कं यन्म स्नानं तस्य विशेषेण विविक्ता [ १०६०, २ ] व्यक्ता मूर्त्तिर्यस्याः सा । कौलुम्भरागेण रुचिरः स्फुरन्नंशुकस्य वस्त्रस्यान्तो यस्याः । केव ! बालो नूतनः प्रवालः पत्रं यत्र एतादृशो यो विटपः शाखी तत्र प्रभव उत्पत्तिर्यस्यास्तादृशी लतेवेत्यर्थः । अत्र लता विभाजते न सु बिभ्राजस इति पुरुषमेदः । तथा- 'गङ्गेव प्रवहतु ते सदैव कीर्त्तिः ।' इत्यादौ गा प्रवहति, न तु प्रवहत्विति प्रवृत्तात्मनो विधेर्भेदः । एवमुपमायामसादृश्यमसंभवश्च दोषः । स्फुटमुदाहरणद्वयम् । उत्प्रेक्षायामपि संभावनधुवादयशब्दा एव वक्तुं प्रभवन्ति न तु यथाशब्दोऽपि । तत्र तदुपादानं दोषः । यथा -

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130