Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन
नन्याश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागणवस्य हृदये वृपलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुन: खलानाम् ॥ हे कालकूट ! इयमाश्रयस्थितिस्तव केनोपदिष्टा कथिता । कीदृशी ? उत्तरोत्तर विशिष्टमुत्कृष्ट पदं स्थानं यस्यां सा । तथा पाक प्रथमतोऽर्णवस्य समुद्रस्य हृदये, अथानन्तरं वृषलक्ष्मणो महादेवस्य कण्ठे, अधुनेदानी स्खलानां दुष्टानां वाचि मुखे वससीत्यर्थः । [प० ५४,२]
अन्यस्ततोन्यथा । (का० ११७, पू० ) अनेकमेकस्मिनुच्यते सोऽन्यः ।
मधुरिमरुचिरं वचः खलानां अमृतमहो प्रथम पृथु व्यनक्ति । अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ॥
अनुमानं तदुक्तं यत् साध्य-साधनयोर्वचः ॥ (का. ११७, उ० ) बोध्य-बोधकयोरित्यर्थः । यथा
यत्रता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं __यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तचक्रीकृतचापमञ्चितशरप्रेसत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः ।। यद यस्मात् यन्वैता लहरीचपलदृष्टयो वामलोचना भुवं ब्यापारयन्ति तत्रैवामी मर्मभिदः कामयाणाः सततं धारया पतन्ति । तत् तस्मात् मण्डलीकृतधनुर्यथा भवति तथा पूरितवाणः प्रसार्यमाणबाहुः क्रोधयुक्तः शासनधारकः सन् , आसां सदा स्मरः कामः अमत एवं धावतीत्यन्वयः । अत्र पूर्वार्द्ध साधनस्य, उत्तरार्द्ध साध्यस्य वचनम् । अत्र वस्तुगत्या व्याप्त्यसत्वेऽपि कविप्रौढोक्तौ च तथाभिधानमित्यलङ्कारत्वम् । अन्यथा वहिमान् धूमादित्यत्रापि तथा स्यात् ।
विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः। (का. ११८, पृ.) अर्थाद् विशेष्यस्य । यथा -
महौजसो मानधना धनार्शिता धनुर्भूतः संयति लब्धकीर्तयः।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छत्यमुभिः समीहितम् ॥ भारवेः पद्यम् । अत्र महौजस्त्वादिविशेषणानि परानभिभवनीयत्वाधभिप्रायकाणि ।
व्याजोक्ति छद्मनोद्भिन्नवस्तुरूपनिगृहनम् ॥ ( का० ११८, २०) निगूढमपि वस्तुनो रूपं स्वरूपप्रतिपन्नं केनापि व्यपदेशेन पदपट्टयते सा व्याजोक्तिः । न चैषाऽपहतिः, प्रकृताप्रकृतयोः साम्यस्थेागावात् । यथा -

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130