Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
दाम उल्लास
परोक्तिर्भेदकैः
समासोक्तिः, (०७, पू० )
मेदकैः विशेषणैः द्वैिः प्रकृताप्रकृतसाधारणैः । प्रकृतार्थप्रतिपादकेन वाक्येन लिटानां प्रकृतसाधारणानां भेदकानां विशेषणानां माहात्म्यात्, न तु विशेषसामर्थ्यादपि यदप्रकृतस्वाभिधानं व्यञ्जनं सा समासेन संक्षेपेण अर्धद्वयस्य कथनात् समासोक्तिः । यथा -
लहिऊण [तु] ह(झ) बाहुकंसं जीये स कोचि उल्लासो । जयलच्छी तुह विरहे न उज्जला दुब्बला ननु सा ||
अत्र तयद्विशेषणसामर्थ्यात् जयलक्ष्मी व्यवहारे कान्ताव्ययहारस्य आरोप्यमाणस्प चमत्कारितेति । इयमेवान्यैरेकदेशवर्तिरूपकमिति भण्यते ।
निदर्शना ।
अभववस्तुसम्बन्धः उपमापरिकल्पकः ॥ (का० ९७, उ०)
उपमानोपमेयभावे पर्यवसित इत्यर्थः । तस्य वाक्य पदार्थभेदात् द्वैविध्यम् । तत्राद्यमुदाइरति - 'क्व सूर्यप्रभव' इत्यादिना । अत्रास्पविषयया मन्मत्या सूर्यवंशवर्णनं न स्यादित्येको वाक्यार्थः। अपरस्तु उडुपेन सागरतरणम् । न चोपमानोपमेयभावं विना अनयोः सम्बन्धः संभवतीति उपमायां पर्यवसानम् । द्वितीयो यथा -
अस्या मुखस्य लीलां वहति शरद शर्वरीनाथः ।
छात्र- कथमन्यस्य लीलां अन्यो वहतीत्युपमाय पर्यवसानम् । पूर्ववन्मालाऽपि बोध्या । अप्रस्तुतप्रशंसा या [ सा ] सैव प्रस्तुताश्रया ॥ (का० ९८, ३० ) अप्रस्तुतस्य अप्रकृतस्य प्रशंसा वर्णना । अप्राकरणिकार्थाभिधानेन प्राकरणिकार्थस्यापो ऽप्रस्तुतप्रशंसा । अस्या बहुविषयत्वेऽपि तुझ्ये प्रस्तुते तुल्यान्तरस्याभिधाने अतीव चमत्कार इति तदेवाहियते यथा -
—
अवितततमोऽन्धकूपगर्भादिदमुदधारि करेण येन विश्वम् ।
चरमगिरिगभीरगह्वरान्तः पतति स एष न [ १०५०१] कचिदीक्षतेऽपि ॥
अत्र अप्रस्तुतस्य तथाविधस्य रवेरमिधानेन प्रकृताने कोपकारस्य कस्यचिन्महापुरुषस्य दुर्दशायां केनापि किश्चिनोपकृतमित्याक्षिप्यते । एवमन्यत्रापि बोध्यम् ।
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ (का० १०० ) कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा.
(का० १०१ )
'अस्याः सामान्यलक्षणम् - अतिशय प्रतिपत्तये अन्यस्य अन्यतादात्म्यको फिरूपं निगरणं प्रकृतनिष्ठासाधारणधर्मस्य अविनयीका (क) रणम् । तच्च चन्द्र इत्यत्र चन्द्र एवायं इत्यत्र च
का० प्र० ११

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130