Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 104
________________ काव्यप्रकाशखण्डन संभवति । प्रकृतं निगीर्य असाधारणधर्मेण अनुक्त्वा तेन रूपकाद् व्यवच्छेदः । अध्यवसा[नं] खसादास्म्येनाध्यवसायः । यथा-- लतामूले लीनो हरिणपरिहीनो हिमकर: स्वयं हाराकारा गलति जलधारा कुवलयात् । धुनीते बन्धूर्फ तिलकुसुमजन्माऽपि पवनो गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः ।। यश्च तदेवान्यस्वेनाध्यवसीयते सा अपरा । अन्यदेव हि लावण्यमन्यवास्थाः स्तनधुतिः । सन्मन्ये रचना नेपा सामान्यस्य प्रजापतेः॥ यद्यर्थस यदि शब्देन चेच्छब्दे वा यत् कल्पनं अर्थादसंभाविनोऽर्थप सा तृतीया । यथा उभौ यदि योनि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ कारणस्य शीघ्रकारिता वक्तुं कार्यस्य पूर्वोक्तौ समानकालोक्तौ च चतुर्थी | यथा हृदयमधिष्ठितमादी मालव्याः कुसुमचापबाणेन । चरमं रमणीवल्लभलोचनविषयं स्वया नीता ॥ मालच्या मालवीनाग्न्याः नायिकायाः हृदयं कुसुमबाणेन कामेनादौ प्रथमतः अपिष्ठितमाश्रितम् । हे रमणीवल्लम | त्वया चरमं पश्चादधिष्ठितम् । त्वया कीडशेन : लोचनविषय नेत्रपात्रता भजता गच्छतेत्यर्थः । अत्र राजदर्शनेन हृदये मदनवेदनेति [ ५० ५०,२] तयोःपरीस्थवर्णनमिति । समानकालोक्तौ यथा - 'सममेव समाकान्तं द्वयं द्विरदगामिना' - इत्यादी। प्रतिवस्तूपमा तु सा । (का. १०१, व.पा.) सामान्यस्य द्विरेकस्य यन्त्र वाक्यद्वये स्थितिः॥ (का० १०२, पू.) सामान्यस्य साधारणधर्मस्य वाक्यद्वये उपमानवाक्ये उपमेयवाक्ये च । यथा देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपावित रसम् ॥ एषा देवीभावं कृताभिषेकस्खीत्वं प्रापिता परिजनपदवाच्यतां कथं भजति ! नेत्यर्थः । खल्ल निश्चितं दैवतरूपेण देवतामूर्त्या अङ्कितं चिहितं रनं न परिभोगयोम्यं हस्ताबलारणयोम्यमित्यर्थः । अत्र कथमित्यनेन न खलु इत्यनेन च अनौचित्यं प्रत्याय्यते इत्येकौव अनौचित्यरूपसामान्यस्य द्विरुपादानम् । 'यदि दहत्यनिल' इत्यत्र मालारूपा चैषा योध्या । म.ए. सर्वत्र 'माळत्या' - 'मालती' शम्दो लभ्यते। । 'भजतेस्यपि पाठः' इति दि.।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130