Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 108
________________ එදී काव्यप्रकाशखण्डन निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पितोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ तेषां विशेषात् सामान्येन यथा- 'सुसितवसना [ लंकारा ] या 'मित्यादि । वैधर्म्येणाद्यो यथा - गुणानामेव दौरात्म्याद धुरि धुर्यो नियोज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥ गलिः पतनशीलः । एवमन्येऽप्युदाहार्याः । विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः । (का० ११०, ५० ) वस्तुवृत्तेन अविरोधेऽपि विरुद्वयोरिव यदभिधानं स विशेषः । यथा अभिनव नलिनी किशलयमृणालवलयादि दवदहनराशिः । सुभग कुरङ्गडशोऽस्या विधिवशतस्त्वद्वियोग १० ५२.२ ] पविपाते ।। हे सुभग ! विधिवशतो देवात् त्वद्वियोग एव भवद्विरद्द एव यः पविर्वज्रं तख पाते पलने सति अस्याः कुरनदृशो मृगनेत्रायाः अभिनवा या नलिनी पद्मिनी किसख्यं नवदलं मृणालस्य बिसस्य वलयं बाहरुकरणं एतदादि सर्व दवदहनराशिः दावानलखरूपं भवति । अत्रापाततो नलिनीदलस्वजातिदवदनत्वे जात्योर्विरोधप्रतिभासेऽपि संतापकारित्वलक्षणसाधर्म्य पुरस्कारेण रूपकालङ्कारप्रती तावाभासत्वम् । अस्य बहवो विषयाः स्वयं लक्ष्यतोऽनुसBI | कार्यकारणभूतयोर्धर्मयोर्भिन्नदेशतया आभासनरूपः असंगतिरूपोऽलङ्कारो विरोष एवान्तर्भूतः । यथा - जस्से वणो तस्सेअ वेअणा भगइ तत्रणो अलिअं । दंतक्खअं कवोले बहुए वेअणा सवत्तीयं ॥ [यस्यैव स्तस्यैव वेदना भणति तज्जनोऽलीकम् । दक्ष कपोले वध्वा वेदना सपक्षीनाम् ॥ ] तथा सत्यपि कार्यस्य कारणरूपानुकारे यत् तयोर्गुणक्रिये च मिथो विरुद्धतां व्रजतः स विषमालङ्कारोऽप्यत्रैव विरोधेऽन्तर्भूतः । सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डुयशस्त्रिलोकाभरणं प्रसूते ॥ तमालनीलाऽपि क्रूपाणलेखा रणे रणे यस्थ करस्पर्शमवाप्य सद्यः शरदिन्दुशुखं यशः प्रसूते एतच्चित्रम् | नीलया शुभ्रजननात् । कीदृशम् ? त्रयाणां लोकानां समाहारस्त्रिलोकी तस्याभूषणं सर्वलोकानामेकमा भरणमिति द्वितीयं चित्रम् । हस्तस्पर्शमात्रेण सद्यः प्रसब इति तृतीयम् । स्त्री हि पुंपाणिग्रहणानन्तरं कालान्तरे प्रसूते, रणे हिंसैव योग्या न तु प्रसव इति चतुर्थम् | स्त्री तु कचिदेव रतिरणे प्रसूते, इयं सर्वेष्वेव रणेष्विति पश्चमम् | कृपाणले !

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130