Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 105
________________ वाम बल्लास दृष्टान्तः पुनरेतेषां [सर्वेषां ]प्रतिविम्बनम् ॥ ( का० १.१, २०) एतेषां साधारणधर्मादीनां प्रतिबिम्बनं विशिष्टोपमा । यथा 'दन्धिगन्धगजकुम्म' इति । दृष्टो निन्धयो यत्र स हटान्तः । गृहीतप्रामाण्यकः । यत्र दृष्टान्तवाक्येन दान्तिकबाल्यार्थनिश्चयस्य प्रामाण्यग्रहो भवतीत्यर्थः । यथा - त्वयि दृष्ट एव तस्या निवृत्ति(निर्वाति) मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्षिकसति कुमुदं कुमुद्वत्याः ॥ सकृदूधृत्तिस्तु धर्मस्य प्रकृतामकृतात्मनाम । सैव क्रियासु यहीषु कारकस्येति दीपकम् ॥ (का. १०३) धर्मस्य सकृवृत्तिरुपादानं सैव सकृदृत्तिहीषु क्रियासु सतीवित्यर्थः । क्रियाखित्यादिशब्दात् गुणपरिग्रहः । धर्मस्य क्रियादिरूपस्य एकस्य सद्दीपनाद् दीपकम् । यथा - किविणाण धणं नाआण फणमणी केसरा, सीहाणं । कुलबालिआण थणआ कुत्तो छिप्पंति अमुआणं ॥ अत्र स्पृशन्ति इति क्रिया सकृदुपाचा । एवं बहीषु क्रियासु एकस कारकस्योपादानं बोध्यम् । मालादीपकमा, चेद् यथोत्तरगुणावहम् । (का० १४, पृ०) पूर्वेण पूर्वेण वस्तुना उत्त [प० ५१,१] रोत्तरमुपक्रियते तन्मालादीपकम् । यथा - संग्रामाङ्गणसंगतेने भवता चापे समारोपिते संप्राप्से परिपन्थियोधनिवहे सांमुख्यमासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवंता च कीर्तिरतुला की च लोकत्रयम् ॥ अन निःसपनमूलोकत्रयव्यापिकीर्तिलाभानृपोत्कर्षः प्रतीयते । तत्र पूर्वे यथायोग उत्तरोत्तरोपकारकाः नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा वृत्तिरित्यनुवर्तते । मर्थवशाद् विभक्तिविपरिणामः वर्चते, उपादीयते सकृद् धर्म इत्यर्थः । यथा पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः। आवेदयति नितान्त क्षेत्रियरोग सखि ! हृदन्तः ।। अत्र विरहानुभावत्वेन प्रकृतानां पाण्डतादीनां सकृदुपात्तानां वेदनक्रियायामन्वयः । क्षेनियरोगो यावद् देहभावी देहान्तरचिकित्सः । एवमप्रकृतानामपि । उपमानाचवन्यस्य व्यतिरेकः स एव सः। (काल १०५, १०) अन्यस्य उपमेयस्य व्यतिरेका आधिक्यम् । यथामु.पु. "मागतेन' इति पाठः। मु. पु. अयं पाप इहपाठारमको लभ्यते 'देवाकर्णय ग्रेन येन सहसा यद्यत् समासादितम् ।'

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130