Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 97
________________ नयम उल्लास .. विभिन्नरूपसार्थकानर्थकशब्दनिष्ठं पुनरुक्तस्येव पुनरुतवत् आमासो ज्ञानं एकार्थत्वेनापाततो मा[स] नं पुनरुक्तवदामासः । अर्थान्तरसमितेऽतिव्याप्तिवारणाय विभिनाकारेति. विजातीयानुपूर्वीक इत्यर्थः । तत्र च नानुपूर्वीभेदः । विभजते-स च 'शब्दस्य-' केवलं शब्दनिष्ठः । यथा चासत्यङ्गना रामा: कौतुकानन्दहेतवः। तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः॥ आग्नासु रमत इत्याना रामाः रिरहशून्याः । कौतुकेन विवाहसूत्रेण यः मानन्दः । विबुधाः पण्डिताः सुमनसः । अत्रानादिपदान्यखण्डान्येव । तथा शब्दार्थयोरयम् ॥ (का० ८६, ७० पा) यथा-तनुवपुरजयन्योऽसौ करिकुञ्जररुधिररक्तखरनवरः । तेजोधाम महापृथुमहसामिन्द्रो हरिर्जिष्णुः ॥ अस्मार्थः-तनुः शरीरं कृशश्च । अजघन्यः अप्रमेयबलः । करिणो गजाः प्रशस्तशुण्डाय । [१० ४६, १] रक्तं रुधिरं रक्को वर्णविशेषनिष्ठश्च । तेजो बलविशेषः परोस्कर्षाक्षमता च । धाम तेजः स्थानं च । महस्ते जो बलविशेषश्च । हरिरिन्द्रः सिंहश्च । जिष्णुः कपीन्द्रो जयनशीलश्च । तनुयपुः कृशशरीरः । करिणां प्रशस्तशुण्डानां कुञ्जरांणां रुधिरैः शोणितैः रक्ताः शोणाः खरास्तीक्ष्णा नखा यस्य । तेजसः परोत्कर्षांक्षमतायाः धाम स्थानम्, महो बलविशेषस्तेन पृथु प्रशस्तं मनो येषां तेषामिन्द्रः श्रेष्ठः । अत्रैकस्मिन् पदे तनुविरक्तेत्यादिरूपे परिवर्तिते नालङ्कार इति शब्दालङ्कारः । अपरस्मिन् वपुःकुञ्जरादिरुधिररूपे परिवर्तितेऽपि स न हीयत इत्यर्थनिष्ठः । इत्युभयालङ्कारोऽयं शब्दार्थयोर्मध्ये कथितः ॥ ॥ इति पादशाह-श्रीअकन्चरसूर्यसहसमामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनाउनेकसुकृतविधापकमहोपाध्यायश्रीमानुचन्द्रमाणिशिष्याटोदरशतावधानसाधनमहोपाध्याय श्रीसिदिचन्द्र गणिविरचित काव्यप्रकाशखण्डने नम्रम उल्लासः ॥ दशम उल्लासः। अथार्यालङ्कारानाह - चारुत्वोत्कर्षात् प्रथमं उपमां लक्षयति । .... साधर्म्यमुपमा भेदे, (का० ८५, प्र. पा०) समानौ धौं ययोः अर्थादुपमानोपमेययोः, तौ सधर्माणी, तयोर्भावः साधर्म्यम् । समानधर्मनिरूपितः सम्बन्धः । स एव उपमा समासोत्तरभाववाचिपत्ययस्य संबन्धाभिधायकत्वात् । यद्वा समानर्बहुभिर्धर्मः संबन्धः साधर्म्यम् । वस्तुतस्तु तद्भिन्नले सति तद्गतभ्योधर्मवत्वमुपमेति निर्गलितार्थः । भेदग्रहणमनन्वयव्यवच्छेदाय । पूर्णा लुप्ता च,

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130