________________
नयम उल्लास .. विभिन्नरूपसार्थकानर्थकशब्दनिष्ठं पुनरुक्तस्येव पुनरुतवत् आमासो ज्ञानं एकार्थत्वेनापाततो मा[स] नं पुनरुक्तवदामासः । अर्थान्तरसमितेऽतिव्याप्तिवारणाय विभिनाकारेति. विजातीयानुपूर्वीक इत्यर्थः । तत्र च नानुपूर्वीभेदः । विभजते-स च 'शब्दस्य-' केवलं शब्दनिष्ठः । यथा
चासत्यङ्गना रामा: कौतुकानन्दहेतवः।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः॥ आग्नासु रमत इत्याना रामाः रिरहशून्याः । कौतुकेन विवाहसूत्रेण यः मानन्दः । विबुधाः पण्डिताः सुमनसः । अत्रानादिपदान्यखण्डान्येव ।
तथा शब्दार्थयोरयम् ॥ (का० ८६, ७० पा) यथा-तनुवपुरजयन्योऽसौ करिकुञ्जररुधिररक्तखरनवरः ।
तेजोधाम महापृथुमहसामिन्द्रो हरिर्जिष्णुः ॥ अस्मार्थः-तनुः शरीरं कृशश्च । अजघन्यः अप्रमेयबलः । करिणो गजाः प्रशस्तशुण्डाय । [१० ४६, १] रक्तं रुधिरं रक्को वर्णविशेषनिष्ठश्च । तेजो बलविशेषः परोस्कर्षाक्षमता च । धाम तेजः स्थानं च । महस्ते जो बलविशेषश्च । हरिरिन्द्रः सिंहश्च । जिष्णुः कपीन्द्रो जयनशीलश्च । तनुयपुः कृशशरीरः । करिणां प्रशस्तशुण्डानां कुञ्जरांणां रुधिरैः शोणितैः रक्ताः शोणाः खरास्तीक्ष्णा नखा यस्य । तेजसः परोत्कर्षांक्षमतायाः धाम स्थानम्, महो बलविशेषस्तेन पृथु प्रशस्तं मनो येषां तेषामिन्द्रः श्रेष्ठः । अत्रैकस्मिन् पदे तनुविरक्तेत्यादिरूपे परिवर्तिते नालङ्कार इति शब्दालङ्कारः । अपरस्मिन् वपुःकुञ्जरादिरुधिररूपे परिवर्तितेऽपि स न हीयत इत्यर्थनिष्ठः । इत्युभयालङ्कारोऽयं शब्दार्थयोर्मध्ये कथितः ॥ ॥ इति पादशाह-श्रीअकन्चरसूर्यसहसमामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनाउनेकसुकृतविधापकमहोपाध्यायश्रीमानुचन्द्रमाणिशिष्याटोदरशतावधानसाधनमहोपाध्याय श्रीसिदिचन्द्र
गणिविरचित काव्यप्रकाशखण्डने नम्रम उल्लासः ॥
दशम उल्लासः। अथार्यालङ्कारानाह - चारुत्वोत्कर्षात् प्रथमं उपमां लक्षयति । .... साधर्म्यमुपमा भेदे, (का० ८५, प्र. पा०)
समानौ धौं ययोः अर्थादुपमानोपमेययोः, तौ सधर्माणी, तयोर्भावः साधर्म्यम् । समानधर्मनिरूपितः सम्बन्धः । स एव उपमा समासोत्तरभाववाचिपत्ययस्य संबन्धाभिधायकत्वात् । यद्वा समानर्बहुभिर्धर्मः संबन्धः साधर्म्यम् । वस्तुतस्तु तद्भिन्नले सति तद्गतभ्योधर्मवत्वमुपमेति निर्गलितार्थः । भेदग्रहणमनन्वयव्यवच्छेदाय ।
पूर्णा लुप्ता च,