________________
.७४
काव्यप्रकाशखण्डन . इत्यादौ श्लेषपतिभोत्पत्तिहेतुर्विरोधः, न तु विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । श्लेषे हि अर्थद्वयस्य अन्वयवोपविषयत्वम् । इह त्वेकस्यैव, अन्यस्य तूपस्थितिमात्रम् । तथा 'सद्धशमुक्तामणिः' - सदशः समीचीनं कुलं स एव वंशो वेणुस्तत्र मुक्तामणिरित्यर्थः ।
'नालापविश्वि सिरप श्लोको देव ! महान् भवान् ।' अनुरागवती सन्ध्या दिवसस्तत्पुरसरः।
अहो दैवगतिश्चित्रा तथापि न समागमः ।। सन्ध्या प्रातःसन्ध्या अनुरागबती लौहित्यवती प्रेमवती च । दिवसो दिनं तस्याः सन्ध्यायाः पुरःसरोऽग्रेसरः संमुखब्ध । अहो आश्चर्ये । दैवगतिः विधातृरीतिः, चित्रविचित्रा, तथापि समागमः संयोगो नेत्यर्थः । इत्यादौ परम्परितरूपकस्य व्यतिरेकसमासोतिषु श्लेषस्य निर्वाहकता, न तु श्लेषे विश्रान्तिरिति । अत्र चित्रमेदानाह -
तचित्रं यत्र वर्णानां पद्मा(खङ्गाद्याकारहेतुता ॥ (का० ४५, ३०) .. ननु वर्णानां कथं खन्नाद्याकारतेति चेत्, म । संनिवेशविशेषेण यत्र न्यस्ता वर्णाः पद्मखहाचाकारतामुल्लासयन्ति, लिखिताक्षराणां तथात्वात् , तेन सहाभेदोपचारेण | खङ्गादिगन्धानां वर्णाश्रयता यत्रालङ्कारे तत् । कष्टं काव्यमेतत् । यथा
भासते प्रतिभा [१. ४५, २] सार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा वत ते सभा ॥ . पद्मनन्धः । अस्यार्थः-हे प्रतिभासार! तव सभा भासते रसेनाभाता रसिकेत्यर्थः । हताऽविमा अदीतिर्यस्याः । भावितो वशीकृतः आत्मा यया सा । वादे शुभा । देवामा देवतुल्या । बत हर्षे ।
रसासार रसा सारसायताक्ष क्षतायसा ।
सातावात[त]वातासा रक्षतस्त्वस्त्वतक्षर ॥ सर्वतो भद्रः । अस्यार्थः- रसासारेति सम्बोधनम् । हे पृथ्वि[सार] 1 रक्षतखव रसाऽस्तु । सारसः पक्षिमेदः जलजमिति वा तद्वदीर्घनेत्र ! क्षतः अयः शुभावहो विधिर्यस तं स्वतीति रसाविशेषणम् । सातावात सातं नष्टं, अवात अज्ञानं यस्य | वा गतीत्यादिधात्वनुसारात् , ये गत्यर्थास्ते ज्ञानार्थाः । तनूकरणं तक्षा तं राति प्रामोति तदितर ! तु पुनरथें । एवमन्येऽपि खजयन्धादयोऽनुसत्तव्याः। शब्दार्थोभयवृत्तित्वेन उभयोरलकारयोर्मध्ये पुनरुक्तवदाभासं लायति ।
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा। एकार्थतेव, शब्दस्य.
(का० ८६) मु. पृ. 'पनाचाकृति हेतुता' इति पाठः । .