SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भवम उल्लामा र नन्तरं गृथमाणस्तु मेवौ म किश्चित् कुरुत इति वाच्यमेद [प० ४४, २] इति । वैयाकरणस्विविधाः शब्दा भिद्यन्ते- रूपतः, खरतः, अर्थतश्चेत्युच्यते । वाच्यः शब्दोचारणानन्तरं मत्येयो न स्वभिधेयः । तेन श्वेतो धावतीत्यत्र नाव्याप्तिः । अन्यथा श्वेतगुणवत् कुकुरसमीपहे. शस्खयोरेकस्यापि वाच्यताविरहेण श्लेषो न स्यात् । गुणवति श्वेतशब्दस्य लाक्षणिकत्वात् अत्रामिधा, अनियन्त्रणेन व्यञ्जनावसरः । तस्मान्नानार्थेषु यत्र युगपत् प्रकरणादिकमवतरति तत्र श्लेषः, यत्र क्रमेण तत्रावृत्तिः, यत्रैऋत्रैव तत्र व्यञ्जनेति व्यवस्थितिः । यथा महत्या गदया युक्ता सत्यभामासमन्वितः । भवान् वा भगवान् वाऽपि गतो भेदः परस्परम् ॥ ___ अयं समाश्लेषः । अमन श्लेषो यथा योऽसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद् विषुधेन्द्रः स राजते ॥ स विबुधेन्द्रः पण्डितश्रेष्ठः राजते शोभते । स कः! यः असकृद् वारंवार परगोत्राणां शत्रुसन्तानानां पक्षस्य बलस्य च्छेदे नाशे क्षणेनैव क्षमः समर्थः । छेदरूपे क्षणे उत्समे क्षमो योग्य इति कश्चित् । शतकोटीददातीति शतकोटिदस्तस्य भावस्तत्ता तो बिनद् धारयन् । पक्षे-स विबुधेन्द्रो देवश्रेष्ठः इन्द्रो राजते शोभते । यः परगोत्राणां परे शत्रयो ये गां पृथिवीं जायन्त इति गोत्राः पर्वतास्तेषां पक्षस्य च्छेदः कर्तनं तेन यः क्षण उत्सवः तत्र क्षमो योग्यः । शतकोटिना वजेण धति खण्डयतीति शतकोटिदस्तस्य भावः शतकोटिदता तां विनत् दधान इत्यर्थः । अत्र अभिधानियन्त्रणाभावात् द्वावप्यौँ वाच्यौ । अयं शब्दोषः । अन शब्दाः परिवृत्तिं न सहन्ते । यत्र तु शब्दाः परिवृत्तिं सहन्ते सोऽर्थ श्लेषः । यथा - तोकेनोप्रतिमायाति स्तोकेनायात्यधोगतिम् । __ अहो सुसदृशी वृत्तिः तुलाकोटेः खलख च ॥ . उन्नति प्रगति पक्षे आनन्दम् , अघोगति नम्रतां दुःखं च, अहो इत्याश्चर्ये । अत्र अल्पेनोबेकमायातीति पाठे भवति [५० ४५, १] श्लेषः । इत्यर्थ श्लेषोऽयम् । एवम् - 'सकलकलं पुरमेतआतं संप्रति सुधांशुविम्षमिव ।। • एतत्पुरं नगरं सकलकलं कलकलेन कोलाहलेन सहितं जातम् । किमिव ! सुधांशुविम्बमिव । तदपि कीदृशम् ! सकलाः समस्ताः कलाः चन्द्रकला यन तादृशं संपूर्णमित्यर्थः । इत्यादी श्लेषप्रतिभाहेतुरुपमा, न तु उपमाप्रतिभोत्पत्तिहेतुः श्लेषः । यतः श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता । श्लेषबन्धतः प्राक् साम्यस्य अनुपस्थितेः । अत्र सकलकल एव साधारणो धर्मः । अथवा सकलकलल्वयोरे कशब्दवाच्यत्वेन साजात्यमित्यर्थः । एवम् - 'अबिन्दुसुन्दरी निलं गलल्लावण्यबिन्दुका ।' का०प्र० १०
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy