________________
काव्यप्रकाशखण्डन सितकरकरुचिरविमा विभाकराकार धरणिधव कीर्तिः।
पौरुपकमला कमला साऽपि तवैवास्ति नान्यस्य ।। हे विभाकराकार सूर्य -- (५० ४४,१) सदृश ! धरणेः पृथिव्या धव खामिन् ! तव कीति: अस्ति वर्तते । कीदृशी? सितफरश्चन्द्रस्तस्य करः किरणस्तद्वत् रुचिरा मनोहरा विभा कान्तिर्यस्याः । पौरुषकमला पौरुषलक्ष्मीः, कमला लक्ष्मीः साऽपि प्रसिद्धा तवैवास्ति नान्यस्य पुंस इत्यर्थः।
तदेवं पञ्चधा मतः ॥ (का० ८२, १० मा०) साटानुप्रासः।
अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः। (का० ८३, ५.)
यमकम्, अर्थभिन्नानामित्येकार्थभिन्नानामित्यर्थः । तेन लाटानुप्रासे न प्रसङ्गः । उभयोरेकस्य वा निरर्थकरवे संग्रहः । अत्र श्रुतिसाम्यं प्रयोजकम् । तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकम् । यथा- 'समरसमरसोऽय'मित्यादेः, सेति सरोरस इत्यादिलक्षण्येन तेनैव क्रमेण स्थिततया ।
पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ (फा० ८३, उ.) पादः चतुर्थाशः, तद्भागस्तदर्द्ध-तदादिरूपः । क्रमेणोदा० - यथा --
अचल एष बिभर्ति निरन्तरं मृदुलतामहतीरसभावनम् ।
वहति चात्र बने युवतीगणो मृदुलतामहतीरसभावनम् ॥ यथा
यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवेहितां शिये हितां स्मरामितां स्मरामि ताम् ॥
तारतारतरैरेतरुत्तरोत्तरतो रुतैः।
__रतार्चा तित्तिरी रौति तीरे तीरे तरौ तरौ ।। एवं अर्द्धावृत्ति-लोकावृत्तिमेदा द्रष्टव्याः ।
वाच्यभेदेन भिन्ना यद् युगपद्धाषणस्पृशः। श्लिष्यन्ति शब्दाः लषोऽसौ [अक्षरादिभिरष्टधा ॥1
(का. ८४) अर्थमेदेन शब्दभेद इति दर्शने काव्ये खरो न गण्यते,- इति च नये वाच्यमैदेन भिन्ना अपि यद् युगपदुञ्चारणेन श्लिष्यन्ति मिन्नं स्वरूपमपलुवते स श्लेषः । ननु अगृहीतभिन्नखरूपत्वं श्लेषणं दोषाद् भेदाग्रहे अयमलङ्कारस्तत्र को दोष इत्यत आह - युगपदिति । युगपद्भावणमेकोच्चारणमेव तस्य स्पर्शस्त द्विषयत्वम् , तथा च स एव दोष इत्यर्थः । तथा च शब्दानां मिथो भेदस्तत्रोच्चारणेन दोषेण न गृह्यत इति स श्लेषः । अर्धप्रतीत्य