SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन . उपमानोपमेयसाधारणधर्मोपमामतिपादकानामुपादाने पूर्णा । एफस्स द्वयोसवाणा वा अनुपादाने लुप्ता। सानिमा। श्रोत्यार्थी व भवेद वाक्ये समासे तद्धिते तथा ॥ (का००७) यथेविवादिशब्दा यस्परास्तस्यैव श्रुत्यैव उपमानतामतीतिरिति । यथे[व]वादिशब्दसत्वे श्रौती तथैव तत्र तस्येवे'त्यनेन इवाथै [ प० ४६, २] विहितस्य बतेरुपादाने । सहशमुख्यादिशब्दप्रयोगे 'सरसिजमिदमाननं च तस्याः सममित्यादौ प्रकृताप्रकृतपर्यालोचनयैव उपमानो. पमेयपतीतिरित्यार्थी, 'तद्वत्तेन च तुल्य'मित्यादिना विहितस्य यतेः स्थिती । 'इवेन निस्पसमासो विभत्त्यलोप' इति नित्यसमासे इवशब्दप्रयोगे समासगा । समासानुशासनप्रयोजनममिरिव राजा इत्यादौ । अत्रेदमवघातव्यम् - चन्द्र इव मुखमिल्पत्र अजातीयधर्माश्रयश्चन्द्रः तजातीयधर्माश्रयो मुखमित्युपमेयविशेष्यकैव प्रतीतिः, न तु चन्द्रनिष्ठसजातीयधर्माश्रयो मुखमिति प्रकृति विशेष्यफ एव प्रत्ययः । तथा सति हंसीव धवलश्चन्द्र इत्यादौ प्रतीतिमान्थर्यविरहेण दोषो न स्यात् । हंसीनिष्ठधवलत्वसजातीयधवलवत्तया चन्द्रप्रतीतावनुभव. सिद्ध मान्थय न स्यात् । उभयविशेष्यकस्वे तु पुंस्त्वान्वितधवलपदस्य हंस्यामनन्वयेन चन्द्रमात्रान्वये विवक्षितप्रतीत्यनुपपत्तिर्दोषसंभव एवेति । चन्द्र व मुखं आझादकं इत्पत्र आहादकस्वस उभयगामित्वेऽपि नपुंसकस्य मुखपदस्स लिजमग नपुंसकानपुंसकयोरित्यनुशासनात् इति । क्रमेणोदाहरणानि - .. उत्थाय हदि लीयन्ते दरिद्राणां मनोरथाः । बालवैधव्यदग्धानां कुलस्त्रीणां यथा कुचाः॥ चकितहरिणलोललोचनायाः कुधि नितरामरुणाभिरामशोभा । सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधते ॥ तस्मा नायिकाया इदमाननं मुखं सरसिजं कमलं च समं तुल्यमिति कृत्वा चेतसि मनसि संमदमानन्दं विधत्ते करोति । तस्याः कीदृश्याः चकितश्चञ्चलो यो हरिणो मृगस्तद्वलोले बञ्चले लोचने यस्याः । आननं कीदृशम् ! क्रुषि क्रोधकाले तरुणः कठोरो योऽरुणः सूर्यस्तद्वत्तारा उद्भटा हारिणी मनोहारिणी कान्तिदीप्तिर्यस्य [प० ४७. १] तत् । इयं च समशब्दयोगादार्थी घागर्थाविव संपत्तौ वागर्थप्रतियत्तये । जगतः पितरौ वन्दे पार्वती-परमेश्वरौ । · माधन्त-मध्यरहित दशाहीनं पुरातनम् | अद्वितीयमहं वन्दे मखसशं हरिम् ।। गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् । [ दुरालोकः स समरे निदाघाम्बरलवत् ।।] मु.पु. 'धि तरुणारुणतारहारकारित' इति पाठो लभ्यते । अत्र च व्याख्याऽपि तथैव पाठग्नु सारिणी एवाश्यते।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy