________________
दशम उल्लास तद्धिते पूर्णा श्रौतीमुदाहरति । तस्य राज्ञो गाम्भीर्यस्य गरिमा गुरुत्वं गड़ाया मुजङ्गः कामुकः समुद्रस्तद्वत् तस्येव । अत्र 'तत्र तस्यैवे'त्यनेनेवार्थे यतेविधानाच्छौतीत्वमालोकनीयम् । एवं क्यचि क्यङि णमुलि च भवत्युपमा ! क्रमेणादाहरणानि
पौर सुतीयति जन समरान्तरेऽसावन्तः पुरीयति विचित्रचरित्रचक्षुः ।
नारीयते समरसीम्नि कृपाणपाणावालोक्य तस्य ललितानि सपलसेना ।। असौ राजा पोरं लोकं सुतीयति सुतमिवाचरति । उपमानाशवाचार इति कर्मणि क्यच् । संग्राममध्ये अन्तःपुर इवाचरति । अधिकरणाचेति क्यच् । तस्य चरितानि निरीक्ष्य शत्रुसेना संग्रामसीमनि नारीयते नारीवाचरति । कर्तुः क्यइ सलोपश्चेति क्या । गमुलि मेदद्वयं दर्शयति-मधेति
मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे ।
स पुनः पार्थसञ्चारं सश्चरत्यवनीपतिः ॥ मृधे संग्रामे परे शत्रवस्त्र राजानं निदाघधमाशुदर्श निदाघकालीनसूर्यमिव पश्यन्ति । स पुमरक्नीपतिः राजा दीर्घसञ्चारं पार्थ इव सञ्चरति । अत्र 'कषादिषु यथाविध्यनुप्रयोगः । अथ लुप्ता, तत्रेवादेलोपे यथा
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलतता ॥ . द्विपदसमासे तावदुदाहरति । ततस्तदनन्तरं चन्द्रेण माहेन्द्री पूर्वी [५० ४५.२] दिक अलता शोभिता । कीरशेन ? कुमुदानां नाथेन प्रकाशकेन कामिनीगण्डवत् पाण्डुना पाण्डवणेन नेत्रानन्देन नयनसुखजनकेनेत्यर्थः । अत्र गण्डपाण्डुनेति द्वयोरेव पदयोः समासः । तथा धर्मवाद्योयोलोंपे यथा
सविता विधयति विधुरपि सवित्तरति [तथा] दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ सुखमनुकूलवेदनीयम्, दुःखं प्रतिकूलवेदनीयम् । ताभ्यां व्याप्ते चिते सति, सविता सूर्यो विश्वति विधुरिवाचरति । विधुश्चन्द्रः सवितरति सवितेबाचरति । यामिन्यो रात्रयो दिनन्ति दिनानीवाचरन्ति । दिनान्यपि दिवसान्यपि यामिनयन्ति यामिन्य इषाचरन्तीत्यर्थः । विधुरिवाचरतीत्याचारेऽर्थे किए तल्लोपश्च । आचारार्थककिपो लोपात् धर्मानुपादानम् । एतयोलोंपे - समासेऽपि, यथा-राजते राजकुञ्जरः- राजा कुञ्जर इव । त्रयाणां वादिधर्मोपमानानो लोपे भवत्युपमा । यथा- मृगनयना मानसं हरतीत्यादौ । 'सप्तन्युपमानेत्यादिना यदा समासलोपौ।
अनयेनेव राजश्रीदैन्येनेव मनस्विता । मम्लो साञ्च(थ)विषादेन पमिनीव हिमाम्भसा ॥