________________
काव्यप्रकाशखण्डन
एकस्यैव बहूपमानोपादाने मालोपमा । तथा यथोचरमपमानस्लोपमेयस्वे रस(श)नोपमा बोध्या । शृङ्खलान्यायेन पश्चाद् वलनया । यथा -
मतिरिव मूत्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता ।
तस्य समेव जयश्रीः शक्या जेतुं नृपस्य न परेपाम् ।। एवमन्यदपि बोध्यम् ।
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयः. उपमानत्वं उपमेयत्वं चेत्यर्थः । उपमेयोपमावारणाय एकवाक्यग इति । उपमानान्तरसम्बन्धः अन्वयस्तदभावोऽनन्वयः । अतोऽत्र उपमानान्तरव्यवच्छेदेन चमत्कार इति उपमातोऽस्य भैदः । यथा
रामरावणयोयुद्ध रामरावणयोरिख ।
विपर्यास उपमेयोपमा ५० ४८.१]तयोः ॥ ( का० ९१, उ० ) तयोः उपमानोपमेययोः । विपर्यासः परिवृत्तिः अर्थात् वाक्यद्वये । उपमेयेन उपमा उपमेयोपमा । यथा
कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विमेव तनुः।
धरणीव धृति तिरिव धरणी सततं विभाति बत यस्य ॥ यस्य मतिर्बुद्धिः कमलेव लक्ष्मीरिव । कमला लक्ष्मीर्मतिरिव बुद्धिरिव । विभा कान्तिः तनुरिव शरीरमिर । तनुः शरीरं विभेव कान्तिरिव । धृतिधय धरणीव पृथ्वीव । घरणी पृथ्वी धृतिरिव धैर्यमिव सततं निरन्तरं विभाति शोभत इत्यर्थः ।
तद्रूपकमभेदो य उपमानोपमेययोः। (का० ९३, ५.) अथवा उपमैव तिरोभूतभेदा रूपकमिष्यते । यथा -
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य स दाशरथिः। परिवारितः परित ऋक्षमणस्तिमिरौघराक्षसबलं बिभेदे ।।
माला तु पूर्ववत् । (का० १४, च० पा.) . मालोपमायामिव एकस्मिन् बहब आरोपिताः, तदा मालारूपकम् । यथा
रूपामृतस्य वापिकाऽपि जयश्रीरनङ्गस । विभ्रमरसैकसंपद् जयति जनानन्दकन्दली बाला ।।
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । (का. ९२, पृ.) समेन उपमानेन । समेनेत्यनन्तरम् , ऐक्यरूपेणेति शेषः । तथा च समेन उपमानेनैक्यरूपेण संभावनमुक्षेत्यर्थः । संभावनं उत्कटकोटिकः संदेहः । अयं चन्द्र एव भविष्यतीत्याकारः। यथा