Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
.७४
काव्यप्रकाशखण्डन . इत्यादौ श्लेषपतिभोत्पत्तिहेतुर्विरोधः, न तु विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । श्लेषे हि अर्थद्वयस्य अन्वयवोपविषयत्वम् । इह त्वेकस्यैव, अन्यस्य तूपस्थितिमात्रम् । तथा 'सद्धशमुक्तामणिः' - सदशः समीचीनं कुलं स एव वंशो वेणुस्तत्र मुक्तामणिरित्यर्थः ।
'नालापविश्वि सिरप श्लोको देव ! महान् भवान् ।' अनुरागवती सन्ध्या दिवसस्तत्पुरसरः।
अहो दैवगतिश्चित्रा तथापि न समागमः ।। सन्ध्या प्रातःसन्ध्या अनुरागबती लौहित्यवती प्रेमवती च । दिवसो दिनं तस्याः सन्ध्यायाः पुरःसरोऽग्रेसरः संमुखब्ध । अहो आश्चर्ये । दैवगतिः विधातृरीतिः, चित्रविचित्रा, तथापि समागमः संयोगो नेत्यर्थः । इत्यादौ परम्परितरूपकस्य व्यतिरेकसमासोतिषु श्लेषस्य निर्वाहकता, न तु श्लेषे विश्रान्तिरिति । अत्र चित्रमेदानाह -
तचित्रं यत्र वर्णानां पद्मा(खङ्गाद्याकारहेतुता ॥ (का० ४५, ३०) .. ननु वर्णानां कथं खन्नाद्याकारतेति चेत्, म । संनिवेशविशेषेण यत्र न्यस्ता वर्णाः पद्मखहाचाकारतामुल्लासयन्ति, लिखिताक्षराणां तथात्वात् , तेन सहाभेदोपचारेण | खङ्गादिगन्धानां वर्णाश्रयता यत्रालङ्कारे तत् । कष्टं काव्यमेतत् । यथा
भासते प्रतिभा [१. ४५, २] सार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा वत ते सभा ॥ . पद्मनन्धः । अस्यार्थः-हे प्रतिभासार! तव सभा भासते रसेनाभाता रसिकेत्यर्थः । हताऽविमा अदीतिर्यस्याः । भावितो वशीकृतः आत्मा यया सा । वादे शुभा । देवामा देवतुल्या । बत हर्षे ।
रसासार रसा सारसायताक्ष क्षतायसा ।
सातावात[त]वातासा रक्षतस्त्वस्त्वतक्षर ॥ सर्वतो भद्रः । अस्यार्थः- रसासारेति सम्बोधनम् । हे पृथ्वि[सार] 1 रक्षतखव रसाऽस्तु । सारसः पक्षिमेदः जलजमिति वा तद्वदीर्घनेत्र ! क्षतः अयः शुभावहो विधिर्यस तं स्वतीति रसाविशेषणम् । सातावात सातं नष्टं, अवात अज्ञानं यस्य | वा गतीत्यादिधात्वनुसारात् , ये गत्यर्थास्ते ज्ञानार्थाः । तनूकरणं तक्षा तं राति प्रामोति तदितर ! तु पुनरथें । एवमन्येऽपि खजयन्धादयोऽनुसत्तव्याः। शब्दार्थोभयवृत्तित्वेन उभयोरलकारयोर्मध्ये पुनरुक्तवदाभासं लायति ।
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा। एकार्थतेव, शब्दस्य.
(का० ८६) मु. पृ. 'पनाचाकृति हेतुता' इति पाठः । .

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130