Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
७d
काव्यप्रकाशखण्डन
नवम उल्लासः। मलद्वारे विवेचनीये लक्षणशब्दस्स प्रागुपादानात् तथैवाकासासत्त्वात् शब्दालकारानादावाह -
यदुतमन्यथा [५० ४३. १] वाक्यमन्यथाऽन्येन योज्यते । शेषेण काका वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ।
(मू. का ७४)
वक्त-श्रोतृनिर्वासोऽयमलकारः । अन्यथा अन्यप्रकारेण बक्तुरन्याभिप्रायकं वाक्यं श्रोत्राऽन्यथा समर्थितमित्यर्थः । अन्येनेति तेन खोक्तौ अन्यथाकरणे अपहृतौ नातिव्याधिः । रेग वक्तुरविवक्षितेन शब्दस्य शक्यान्तरेण । तथा काका । तथा च श्लेषवक्रोक्तिः, काकुवक्रोक्तिश्रेति निर्गलितार्थः । क्रमेणोदाहरणम् -
अहो केनेशी बुद्धिारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिने तु दारुमयी कचित् ॥ अस्वार्थः -दारुणा हिंसा काष्ठेन च । त्रिगुणा सत्त्वरजस्तमोमयी । अत्र दारुणत्वपदस्य दारुमयत्वेनान्यथा योजनम् ।
गुरुजनपरतत्रतया दूरतरं देशमुद्यतो गन्तुम् । __ अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ॥ गुरुपरततया गुर्वाधीनतया बत्त कष्टे दूरतरं बहुदिवसगम्यं देशं जनपदं गन्तुं यातुं उद्यतः कृतोद्योगः वसन्तसमये असौ नायको नैष्यति नायास्यति । कीदृशे ? अलिकुलं अमरसमूहः कोकिलः पिकः तेन ललिते सुन्दरे । सखीति सम्बोधनपदम् । नायिकया नैष्यतीति निषिद्धे, तत्सखी काका अन्यथयति-नैष्यति ? अपि तु एथ्यत्येवेत्यर्थः।
वर्णसाम्यमनुप्रासः, (का० ७९, प्र० पा०) यमकेऽतिव्याप्तिवारणार्थमाह - खस्वैसादृश्येऽपि व्यञ्जनसाम्यमनुमासः । अत्र सरसाद न प्रयोजक कुलालकलत्रमित्यादिष्वपि दर्शनात् । यमके तु समानानुपूर्वी कत्वं प्रयोजकम् ।
छेकवृत्तिगतो द्विधा । (., द्वि० मा० ) छेका विदग्धाः । वृत्तिर्मधुररसादिव्यञ्जिका तत्वदानुपूर्वीरूपा । गतो ज्ञातः । आभ्यामुपाघिभ्यामित्यर्थः । छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विधा ज्ञेयः । किं तयोः खरूपमित्याह -
सोऽनेकस्य सकृत्पूर्वः, (,, तृ० पा) अनेकस्य अर्थाद् व्यञ्जनस्य सकृदेकवार साम्यं छेकानुपासः । यथा -
ततोऽरुणपरिस्पन्दमन्दीकृतवपुः (प० ४३, २) शशी । दः कामपरिक्षामकामिनीगण्डपाण्डताम् ।।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130