SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७d काव्यप्रकाशखण्डन नवम उल्लासः। मलद्वारे विवेचनीये लक्षणशब्दस्स प्रागुपादानात् तथैवाकासासत्त्वात् शब्दालकारानादावाह - यदुतमन्यथा [५० ४३. १] वाक्यमन्यथाऽन्येन योज्यते । शेषेण काका वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा । (मू. का ७४) वक्त-श्रोतृनिर्वासोऽयमलकारः । अन्यथा अन्यप्रकारेण बक्तुरन्याभिप्रायकं वाक्यं श्रोत्राऽन्यथा समर्थितमित्यर्थः । अन्येनेति तेन खोक्तौ अन्यथाकरणे अपहृतौ नातिव्याधिः । रेग वक्तुरविवक्षितेन शब्दस्य शक्यान्तरेण । तथा काका । तथा च श्लेषवक्रोक्तिः, काकुवक्रोक्तिश्रेति निर्गलितार्थः । क्रमेणोदाहरणम् - अहो केनेशी बुद्धिारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिने तु दारुमयी कचित् ॥ अस्वार्थः -दारुणा हिंसा काष्ठेन च । त्रिगुणा सत्त्वरजस्तमोमयी । अत्र दारुणत्वपदस्य दारुमयत्वेनान्यथा योजनम् । गुरुजनपरतत्रतया दूरतरं देशमुद्यतो गन्तुम् । __ अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ॥ गुरुपरततया गुर्वाधीनतया बत्त कष्टे दूरतरं बहुदिवसगम्यं देशं जनपदं गन्तुं यातुं उद्यतः कृतोद्योगः वसन्तसमये असौ नायको नैष्यति नायास्यति । कीदृशे ? अलिकुलं अमरसमूहः कोकिलः पिकः तेन ललिते सुन्दरे । सखीति सम्बोधनपदम् । नायिकया नैष्यतीति निषिद्धे, तत्सखी काका अन्यथयति-नैष्यति ? अपि तु एथ्यत्येवेत्यर्थः। वर्णसाम्यमनुप्रासः, (का० ७९, प्र० पा०) यमकेऽतिव्याप्तिवारणार्थमाह - खस्वैसादृश्येऽपि व्यञ्जनसाम्यमनुमासः । अत्र सरसाद न प्रयोजक कुलालकलत्रमित्यादिष्वपि दर्शनात् । यमके तु समानानुपूर्वी कत्वं प्रयोजकम् । छेकवृत्तिगतो द्विधा । (., द्वि० मा० ) छेका विदग्धाः । वृत्तिर्मधुररसादिव्यञ्जिका तत्वदानुपूर्वीरूपा । गतो ज्ञातः । आभ्यामुपाघिभ्यामित्यर्थः । छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विधा ज्ञेयः । किं तयोः खरूपमित्याह - सोऽनेकस्य सकृत्पूर्वः, (,, तृ० पा) अनेकस्य अर्थाद् व्यञ्जनस्य सकृदेकवार साम्यं छेकानुपासः । यथा - ततोऽरुणपरिस्पन्दमन्दीकृतवपुः (प० ४३, २) शशी । दः कामपरिक्षामकामिनीगण्डपाण्डताम् ।।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy