________________
अष्टम उल्लास योग आद्यतृतीयाभ्यामन्तरेण तृतीययोः ।
दादिशे(शोषौ वृत्तिदैर्घ्य गुम्फ उद्धत ओजसिौ ॥ (का० ७५) चवर्गप्रथम-द्वितीयाभ्यां द्वितीय-चतुर्थयोर्योगः । रेफेणाध उपरि उभयत्र वा यस्य कस्यवित्तुल्ययोस्तेन तस्यैव सम्बन्धः । टवर्गो णकारवजः, शकार-पकारी, दीर्घसमासः, विकटा घटना ओजसो व्यक्षिका इत्यर्थः । यथा 'मूर्धामुद्वृत्तकृचेत्यादि । प्रसादव्यञ्जकानाह -
श्रुतिमात्रेण शब्दानी येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणा स्मृतः॥ (म० का० ७६) समग्राणां रसानां समासानां घटनानां च । यथा
परि [प० ४२. २ ] म्लानं पीनस्तनजघनसङ्गादुभयतः
तनोर्मध्यस्थान्तःपरिमलनमप्राप्य हरितम् । इदं व्यस्तन्यस्तं श्लथ जलताक्षेपचलनः
कृशायाः संतापं वदति नलिनीपत्रशयनम् ।। कृशाम्याः कृशशरीरायाः संतापं विरहवेदनां बिसिनीपत्रस्य कमलिनीदलस्य इदं शयनं शग्या वदति कथयति । कीदृशम् ? पीनयोसिलयोः स्तनयोः जघनस्य नितम्बस्य सनात् संसर्गात् उभयतो भागद्वये ऊ धोरूपे परिम्लानं उच्छुष्कम् । पुनः कीदृशम् ! तनोर्मध्यस्य उदरभागस्य परिमिलनं संसर्गमप्राप्य अन्तर्मध्ये हरितं हरिद्वर्णम् । श्लथा या भुजलता तस्याः क्षेपो बुद्धिपूर्वकचालनम् , चलनं चाबुद्धिपूर्विका क्रिया, तैव्यस्तन्यासं विघटितसंनिवेशमित्यर्थः । यद्यपि गुणपरतत्रा घटनादयस्तथापि
वक्तवाच्यप्रवन्धानामौचित्येन कचित् कचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ (मू. का. ४) कचित् वाच्यमबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । कचित् वक्तप्रबन्धानपेक्षया बाच्यौचित्याद रचनादयः । उदाहरणं खयमूहनीयम् । एवं कचित् वक्तवाच्यानपेक्षया प्रबन्धोचिता एव ते । तथा हि -- आख्यायिकायां शृङ्गारेऽपि न मसणवर्णादयः । कथायां रौद्रेऽपि नास्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदौचित्यमनुसर्वव्यम् ।। ॥ इति पादशाहश्रीअकबरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय-श्रीमानुचन्द्रगणिशिष्याटेत्तरशतावधामसाधनप्रमुदित पादशाहथीअकबर प्रदत्त-षु (ख)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाशम(ख)ण्डने गुणनिर्णयो नाम अष्टम उलासः ।।
मु. पु. एषः श्लोक ईएक्पाठारमको लभ्यते -
योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैश्य गुम्फ उद्धत मोजसि ॥ ३ 'शम्दातु' इति म. मु. पाठा ।