SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाश खण्डन भिधाने । तथा एकवाक्यार्थस्यानेकवाक्येन प्रतिपादनं व्यासः, तथाऽनेकवाक्यार्थस्य एकेन प्रतिपादनं समासः । क्रमेणोदा • प्राप्ताः श्रियः सकलकामदुधास्ततः किं दसं पदं शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणायनो विभवंस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ अत्र तत्वज्ञानं विना सर्वम किञ्चित्करमित्येकवाक्यार्थोऽनेकवाक्येन प्रपञ्चितः । ते हिमालय मामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चामै निवेद्यार्थे तद्विसृष्टाः खमुद्ययुः ॥ अत्र एकवाक्ये बहुवाक्यार्थनिबन्धात्मा समासः । अथ कान्तिः [१० ४२. १ ] दीप्तरसत्वरूपा । यत्र रसोद्दीपनैकहेतुत्वं चारुत्वेनालङ्कारादिसंमिनम् । यथा 'यः कौमारहर' इत्यादौ । तथा अर्थदृष्टिरूपः समाधिः । अर्धश्व द्विविधः । अयोनिः, अन्यच्छाया योनिश्च । क्रमेगोदा० - 'सद्यो मुण्डितम चहूणचिबुकस्पर्द्विष्णुनारङ्गक' मित्यत्र । एवं नारङ्गकवर्णनमन्येन [न] कृतमित्ययोनिः । द्वितीयो यथा - 1 निजनयन प्रतिबिम्बैरम्बुनि बहुशः प्रतारिका कापि । नीलोत्पलेsपि मृष्यति करमर्पयितुं कुसुमलावी ॥ अत्र वदनोत्पलयोः सादृश्यमन्येनापि वर्णितमित्यन्यच्छायायोनिः । इत्याखाददेतूनां गुणानामपलापः कर्तुमयोभ्यः प्रकाशकृतामिति नवीनाः । अथ रसधर्माणां माधुर्योजः प्रसादानां गुणानां व्यञ्जकान् वर्णान् आहमूर्ध्नि वर्गान्यगा व अटवर्गा रणौ लघू । - अवृत्तिर्मध्यवृत्तिर्वा माधुयें घटना तथा ॥ ( ० का ० ७४) टठडढवजः कादयो मान्ताः शिरसि निजनिजवर्गान्स्यवर्णयुक्ताः । यथा 'कुन्द' इत्यादि । तथा रणौ खान्तरितौ । इति वर्णाः । अवृत्तिः समासाभावो मध्यमः समासो देति । तथा माधुर्यवती पक्षान्तरयोगे (गेन ? ) रचना माधुर्यस्य व्यञ्जिका इति शेषः । पदान्तरयोग इति यथा 'अलङ्कुरु' इत्यत्र पदयोः सन्धौ मधुरवर्णोत्पत्तिः । यथा- 'अनङ्गरङ्गप्रतिमं तदमित्यादि । १ 'स्पोः' इति पाठः झु. पु.
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy