Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन ___ अत्र चतुर्थपादे गुरुस्मरणेन क्रोधाभावात् मसृणवर्णत्वमेवोचितमिति तस्यादोषत्वमिति । विनयप्रकाशकत्वाच गुणत्वम् ।
समाप्तपुनरावं कचिन गुणो न दोषः । यत्र न विशेषापादनार्थ पुनर्ग्रहणं अपितु वाक्यान्तरमेव क्रियते । यथाऽत्रैव 'प्रागप्राप्त०' इत्यादौ ।
अपदस्थसमासं कचिद्गुणः । उदाहृते 'रक्ताशोक' इत्यादौ, 'नो दृष्टा इति क्रोधोक्ती दीर्घसमासकरणात् स्थानौचित्यविवेचनाभावेन क्रोधोन्मादपरिपुष्टिः । अथ प्राचीनोक्तरसदोषानाह -
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभाव-विभावयोः ।। (मू का..) प्रतिकूलथिभावादिग्रहो दीप्तिः पुनः पुनः। अकाण्डे प्रथनच्छेदी अङ्गस्याप्यतिविस्तृतिः ॥ (मू० का०६१) अङ्गिनोऽननुसन्धान प्रकृतीनां विपर्ययः॥
अननस्याभिधानं तु रसे दोषाः स्युरीशाः ॥ (मू० • ६१) व्यभिचार्यादीनां खशब्दोपादाने यथाक्रम भावध्वनित्वं चमत्कारित्वं रसत्वं च न स्यात् । व्यजितानामेव [प० ३६. १] व्यभिचार्यादीनां तत्तद्रूपत्वात् । अत एवोकम् 'व्यभिचारी तथालितो भावः प्रोक्त' इति । तथा 'अभिव्यक्तश्चमत्कारकारी शृङ्गारादिको रस इति, एवं 'व्यक्तः स तेरित्यादि च । एवं सति एतेषां प्रधानकाव्यत्वं मवति । तत् सर्व व्यञ्जनामाहात्म्यम् । तत्र प्रमाणं तु सहृदयहृदयमेव । व्यभिचारिणः खशब्देनोपादानं यथा
सबीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतसन्दिनि । सेा जल्लुसुतावलोकनविधौ दीना कपालोदरे
___ पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ पार्वत्या भवान्या दृष्टिनेंत्र वो युष्माकं शिवाय कल्याणाय अस्तु भवतु । कीडशी ! दयितस्य शिवस्यानने मुखे सत्रीडा सलज्जा; मातङ्गस्य हस्तिनो यश्चर्म अजिनं तदेव यदम्बरं वस्त्रं तत्र सकरुणा सदया; भुजगे पत्युभूषणस सत्रासा सभया; अमृतस्यन्दिनि अमृतवर्षिणि चन्द्रे पत्युर्ललाटस्थितार्द्धचन्द्रे सविस्मयरसा अद्भुतरससहिता; जदुसुताया गलाया अवलोकनविधौ दर्शनक्रियायां सेा ईर्ष्या विशिष्टा; कपालानां भा धृताना उदरे मध्ये दीना दुःखिता; नवसङ्घमे नूतनसमागमे प्रणयिनी प्रीतिमतीत्यर्थः । अत्र श्रीडादीनां शब्दवाच्यता।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130