Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 78
________________ 오물 काव्यप्रकाशमण्डन पुंसः पुरुषस्य ध्वजः केतुः साधनान्तः सैन्यमध्ये उपसर्पन् गच्छन् विराजते शोभते । सम्बाधे जनसङ्कुले देशे करिहस्तेन गुण्डादण्डेन अन्तः सैन्यमध्ये विलोलिते विरलीकृते सतीत्येकत्रार्थः । अपरत्र च - सर्जन्यनामिके ष्टेि मध्यमापृष्ठतस्तयोः । करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः ॥ इत्युक्तलक्षणेन करिहस्तेन अन्तर्मोनिमध्ये प्रविश्य सम्बाधे योनिसङ्कोचे सति, विलोकिते विकाश ( स )तां नीते सति, पुंसः पुरुषस्य ध्वजो लिङ्गं साधनान्तः योनिमध्ये विराजते शोभते इत्यर्थः । शमकथासु यथा - उत्तानोच्छून मण्डूकपाटितोदरसन्निभे । दिनि स्त्रीत्रणे सक्तिरक्रमेः कस्य जायते ॥ अत्र वैराग्यहेतुभृणोत्पादनया जुगुप्सागुणः । निर्वाणवैरदहनाः प्रशमादरीणां निन्दन्तु पाण्डुतनयाः सह माघवेन । रक्ताः प्रसारितवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ पाण्डुतनयाः पाण्डवाः पञ्च, माधवेन कृष्णेन सह, नन्दन्तु आनन्दं प्राप्नुवन्तु । कीदृशाः ! अरीणां शत्रूणां दुर्योधनादीनां प्रशमात् कलहत्यागात्, पक्षे नाशात्, निर्वाणो नष्टो बैररूपो दहनोऽमिर्येषां ते तथा । कुरुराजो धृतराष्ट्रः तस्य पुत्राः सभृत्याः स्वस्याः सुखिनः, पक्षे खर्गस्था भवन्तु । कीदृशाः ! रक्ताऽनुरक्ता प्रसाचिताऽलंकृता भूर्यैः । दुर्योधनामङ्गलस्य नायकमङ्गलत्वेन गुणत्वम् । सन्दिग्धमपि राज्ञो महिमा वर्णनीय इति नियमार्थप्रतिपत्तिकृतत्वेन व्याजस्तुतिपर्यनखानाद् गुणः । यथा 'कुभोजनं महाराज ! तवापि च ममापि च ।' इत्यादौ । अधम प्रकृतेर्विदूषका [प. ३५.१ दिरुक्तिषु हास्यकारिषु ग्राम्यो गुणः । न्यूनपदं कचिद् गुणः, यथा - गाढालिङ्गनवामनीकृत कुचमोनिरोमोमा सान्द्रस्नेहरसातिरेकविगलच्छ्री मनितम्बाम्बरा | मा मा मानद माsति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं तु सृता नु किं मनसि मे लीना विलीना नु किम् ॥ अत्र पीडयेति पदमनुपात्तं वक्त्र्याः हर्षसंमोहातिशयं प्रतिपादयन् गुणतामापद्यत । अध्याहारेण वाक्यार्थबोध बिलम्बेऽपि प्रकृतरसपोषकत्वाद् । उक्तरूपा सा नायिका मम मनसि सुप्ता वा, निश्चलत्वेन वर्त्तमानत्वात् । सुप्तस्य श्वासादिकमनुभूयत इत्यत आह-मृता नु किन् ! | मृताऽपि

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130