________________
오물
काव्यप्रकाशमण्डन
पुंसः पुरुषस्य ध्वजः केतुः साधनान्तः सैन्यमध्ये उपसर्पन् गच्छन् विराजते शोभते । सम्बाधे जनसङ्कुले देशे करिहस्तेन गुण्डादण्डेन अन्तः सैन्यमध्ये विलोलिते विरलीकृते सतीत्येकत्रार्थः । अपरत्र च -
सर्जन्यनामिके ष्टेि मध्यमापृष्ठतस्तयोः । करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः ॥
इत्युक्तलक्षणेन करिहस्तेन अन्तर्मोनिमध्ये प्रविश्य सम्बाधे योनिसङ्कोचे सति, विलोकिते विकाश ( स )तां नीते सति, पुंसः पुरुषस्य ध्वजो लिङ्गं साधनान्तः योनिमध्ये विराजते शोभते इत्यर्थः ।
शमकथासु यथा -
उत्तानोच्छून मण्डूकपाटितोदरसन्निभे । दिनि स्त्रीत्रणे सक्तिरक्रमेः कस्य जायते ॥
अत्र वैराग्यहेतुभृणोत्पादनया जुगुप्सागुणः ।
निर्वाणवैरदहनाः प्रशमादरीणां निन्दन्तु पाण्डुतनयाः सह माघवेन । रक्ताः प्रसारितवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ पाण्डुतनयाः पाण्डवाः पञ्च, माधवेन कृष्णेन सह, नन्दन्तु आनन्दं प्राप्नुवन्तु । कीदृशाः ! अरीणां शत्रूणां दुर्योधनादीनां प्रशमात् कलहत्यागात्, पक्षे नाशात्, निर्वाणो नष्टो बैररूपो दहनोऽमिर्येषां ते तथा । कुरुराजो धृतराष्ट्रः तस्य पुत्राः सभृत्याः स्वस्याः सुखिनः, पक्षे खर्गस्था भवन्तु । कीदृशाः ! रक्ताऽनुरक्ता प्रसाचिताऽलंकृता भूर्यैः । दुर्योधनामङ्गलस्य नायकमङ्गलत्वेन गुणत्वम् ।
सन्दिग्धमपि राज्ञो महिमा वर्णनीय इति नियमार्थप्रतिपत्तिकृतत्वेन व्याजस्तुतिपर्यनखानाद् गुणः । यथा
'कुभोजनं महाराज ! तवापि च ममापि च ।' इत्यादौ । अधम प्रकृतेर्विदूषका [प. ३५.१ दिरुक्तिषु हास्यकारिषु ग्राम्यो गुणः । न्यूनपदं कचिद् गुणः, यथा
-
गाढालिङ्गनवामनीकृत कुचमोनिरोमोमा सान्द्रस्नेहरसातिरेकविगलच्छ्री मनितम्बाम्बरा |
मा मा मानद माsति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं तु सृता नु किं मनसि मे लीना विलीना नु किम् ॥
अत्र पीडयेति पदमनुपात्तं वक्त्र्याः हर्षसंमोहातिशयं प्रतिपादयन् गुणतामापद्यत । अध्याहारेण वाक्यार्थबोध बिलम्बेऽपि प्रकृतरसपोषकत्वाद् । उक्तरूपा सा नायिका मम मनसि सुप्ता वा, निश्चलत्वेन वर्त्तमानत्वात् । सुप्तस्य श्वासादिकमनुभूयत इत्यत आह-मृता नु किन् ! | मृताऽपि