SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सप्तम उल्लास महिरनुभूयत इस्मत आह - लेनेति, जनुकाष्ठादिवदिति शेषः । तथास्तस्मावि विघटन कर्तुं शक्यत' इत्यतः विलीना नु किमिति ? नीरक्षीरवदिति शेषः । कीदृशी गामालानेन इढपरी( रि अम्मेण वामनीकृतौ भुनौ कृतौ कुचौ यस्याः सा चासौ, प्रोद्विन्नः प्रयकरोभोद्गमः पुलको यस्याः सा । तथा सान्द्रो निबिडो यः स्नेहः प्रीतिः रसः शृङ्गारस्तयोरतिरेकेनाधिक्येन विगल दूरीभवत् श्रीमतः शोभावतो नितम्बस्याम्बरं वस्त्रं यस्याः सा । हे मानद । मानखण्डक ! मानप्रद ! वा मां अलं अतिशयेन मा मा माऽतिपीडयेति शेषः। इत्यनेन प्रकारेण क्षामाक्षरस्य न्यूनशब्दस्य उल्लापिनी कथयित्रीत्यर्थः । क्वचिन्न गुणो न दोषः, यथा ___तिष्ठेव कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति ।' इत्यादौ हितेत्यनन्तरं नहा का हरगतै गौः विशेषबुद्धेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वो बाधत इति न दोषः । अधिकपदं कचिद् गुणः, यथा__ वद वद जितः स शत्रुनै हतो जल्पश्च तव तवास्मीति । चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥ इत्येवमादौ हर्षभयादियुक्ते वक्तरि हर्षादिपोषकत्वात् । कचित् कथितपदं गुणः, लाटानुप्रासे अर्थान्तरसङ्गमितवाच्ये विहितस्यानुवाद्ये च । क्रमेणोदाहरणानि [प. ३५.२ ] यस्य न सविधे दयिता दबदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । 'यस्य मित्राणि मित्राणि' इत्यादौ । जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षण जनोऽनुरज्यते जनानुरागप्रमवा हि संपदः ॥ जितेन्द्रियत्वं इन्द्रियजयः विनीतताया: कारणं निदानम् । विनयाद् गुणानां प्रकर्षः उत्कर्षोऽवाप्यते प्राध्यते । गुणाधिके गुणैरधिके उत्कृष्ट पुंसि पुरुषे जनो लोकोऽनुरज्यते अनुरत्तो भवति । जनानुराग एव प्रभवः उत्पत्तिर्यासां तास्तथा संपदो विमूतयः इति त्रिषु, लाटानुप्रासादिचयसंपादकत्वात् । पतत्मकर्ष कचिद्गुणो यथा - प्रागप्राप्तनिशुम्भशाम्भवधनुढेधाविधाविर्भवत् क्रोधप्रेरितमीमभार्गव जस्तम्भापविद्धः क्षणात् । उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि पेनानेन जगत्सु खण्डपरशुर्देवो हर ख्याप्यते ॥ का.प्र.
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy