SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन ___ अत्र चतुर्थपादे गुरुस्मरणेन क्रोधाभावात् मसृणवर्णत्वमेवोचितमिति तस्यादोषत्वमिति । विनयप्रकाशकत्वाच गुणत्वम् । समाप्तपुनरावं कचिन गुणो न दोषः । यत्र न विशेषापादनार्थ पुनर्ग्रहणं अपितु वाक्यान्तरमेव क्रियते । यथाऽत्रैव 'प्रागप्राप्त०' इत्यादौ । अपदस्थसमासं कचिद्गुणः । उदाहृते 'रक्ताशोक' इत्यादौ, 'नो दृष्टा इति क्रोधोक्ती दीर्घसमासकरणात् स्थानौचित्यविवेचनाभावेन क्रोधोन्मादपरिपुष्टिः । अथ प्राचीनोक्तरसदोषानाह - व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभाव-विभावयोः ।। (मू का..) प्रतिकूलथिभावादिग्रहो दीप्तिः पुनः पुनः। अकाण्डे प्रथनच्छेदी अङ्गस्याप्यतिविस्तृतिः ॥ (मू० का०६१) अङ्गिनोऽननुसन्धान प्रकृतीनां विपर्ययः॥ अननस्याभिधानं तु रसे दोषाः स्युरीशाः ॥ (मू० • ६१) व्यभिचार्यादीनां खशब्दोपादाने यथाक्रम भावध्वनित्वं चमत्कारित्वं रसत्वं च न स्यात् । व्यजितानामेव [प० ३६. १] व्यभिचार्यादीनां तत्तद्रूपत्वात् । अत एवोकम् 'व्यभिचारी तथालितो भावः प्रोक्त' इति । तथा 'अभिव्यक्तश्चमत्कारकारी शृङ्गारादिको रस इति, एवं 'व्यक्तः स तेरित्यादि च । एवं सति एतेषां प्रधानकाव्यत्वं मवति । तत् सर्व व्यञ्जनामाहात्म्यम् । तत्र प्रमाणं तु सहृदयहृदयमेव । व्यभिचारिणः खशब्देनोपादानं यथा सबीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतसन्दिनि । सेा जल्लुसुतावलोकनविधौ दीना कपालोदरे ___ पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ पार्वत्या भवान्या दृष्टिनेंत्र वो युष्माकं शिवाय कल्याणाय अस्तु भवतु । कीडशी ! दयितस्य शिवस्यानने मुखे सत्रीडा सलज्जा; मातङ्गस्य हस्तिनो यश्चर्म अजिनं तदेव यदम्बरं वस्त्रं तत्र सकरुणा सदया; भुजगे पत्युभूषणस सत्रासा सभया; अमृतस्यन्दिनि अमृतवर्षिणि चन्द्रे पत्युर्ललाटस्थितार्द्धचन्द्रे सविस्मयरसा अद्भुतरससहिता; जदुसुताया गलाया अवलोकनविधौ दर्शनक्रियायां सेा ईर्ष्या विशिष्टा; कपालानां भा धृताना उदरे मध्ये दीना दुःखिता; नवसङ्घमे नूतनसमागमे प्रणयिनी प्रीतिमतीत्यर्थः । अत्र श्रीडादीनां शब्दवाच्यता।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy