________________
सप्तम उल्लास रक्ताशोक ! कुशोदरी कनु गता त्यक्त्वाऽनुरक्तं जनं
नो दृष्रैव गुधैव चालयसि किं वाताभिभूतं शिरः। उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः
तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ अत्र शिरोविधूननेन कुपितस्य वचसि विप्रलम्भेऽपि कष्टस्वं गुणः । कचिन्नीरसे कष्टत्वं न गुणो न दोषः । शृङ्गारवीरादिरसानामेकस्याप्यभावान्नापकर्षक उत्कर्षकं च । यथा
तद् गच्छ सिद्ध्यै कुरु देवकार्य अर्थोऽयमर्थान्तर लभ्य एव ।
अपेक्षते प्रत्ययमङ्गलङध्य बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ अप्रयुक्तनिहतार्थौ श्लेषादौ न दुष्टौ श्लेषरूपालङ्कारकृतचारुत्वनिर्वाहकत्वात् प्रतीतिमान्थर्यस्मादोषत्वात् । यथा -
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्वीकृतो
यचोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात् स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ अत्र माधवपक्षे - शशिमदन्धकक्षयकरशब्दावप्रयुक्तनिहतार्थौ । ध्वस्तकामेन अभ च अभवेन संसारातीतेन येन अनः शकटं 'अनो मातरि शकटे च' । ध्वस्त भनम् , बलिजिद् विष्णुस्तस्य कायः शरीरं पुरा त्रिपुरदाहे अस्त्रीकृतः अस्वभावं पापितः । अथ च बलिजेता देहः पुराऽमृतपानावसरे स्त्रीत्वं प्रापितः । यश्चोद्धतानां सर्पाणां हारो वलयानि च यस्य तादृशः । अथ चोद्भुतभुजङ्गः कालीयस्तस्य हन्ता ताडयिता । रवे वाचि वेदास्ये लयो गुप्तिर्यस्य स तथा । यश्च गङ्गां देवनदी धारितवान् । अथ च यः अगं पर्वतं गोवर्द्धनं गां सुरभि मुवं वा धार । यस्यामराः चन्द्रयुक्तमस्तके हर इति स्तुत्यं नामाहुः | अथ च शशिनं मनाति शशिमत् राहु, तस्य शिर छेत्तेति नामाहुः । कीडम् ? अन्धकदैत्यनाशकृत् । अथ च अन्धं अगाधं कं उदकं यस्य ताइक् समुद्रः; अन्धका यादवा बा, तत्र क्षयं वार्स करोति । सर्वदा उमा पार्वती तस्या [ प. ३४.२] भवः पतिः। मथ च सर्व ददाति ताशे माया लक्ष्म्या धव इति । हर-माधवपक्षयोर्यथाक्रम योजना । मत्र शशिमपदं राहावप्रयुक्तं क्षयपदं च गृहे निहतार्थमिति कश्चित् । . अश्लील कचिद्गुणोऽयम् । यथा - सुरतारम्भगोष्ठ्या 'द्वयर्थैः पदैः पिशुनयेच रहस्यवस्तु' इति कामशास्त्रस्थिती
करिहस्तेन संघाचे प्रविश्यान्तर्विलोडिते । उपसर्पन ध्वजः पुंसः साधनान्तविराजते ॥