________________
कास्यप्रकाराखण्डन
यथा
चन्द्रं गता पप० ३३. २ ]गुणान् न भुङ्क्ते पाश्रिता चान्द्रमसीमभिरुयाम् । - उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाव लक्ष्मीः॥
लक्ष्मीः शोभा चन्द्रं चन्द्रमण्डलं गता प्राप्ता सती पभगुणान् कमलगुणान् सौरभादीन न मुझे न पामोति । रात्रौ कमलप्रकाशाभावात् पद्माश्रिता कमलाश्रिता चान्द्रमसी चन्द्रसम्बधिनी अभिल्या शोभां न मुक्के । उमामुख प्रतिपद्य प्राप्य द्विसंश्रयां पद्मचन्द्रोमयाश्रयो प्रीति अवाप प्राप्तवतीत्यर्थः । अत्र रात्रौ पद्मस्य सक्कोचो दिवा चन्द्रस निष्प्रभत्वं लोकप्रसिद्धमिति न मुझे इति हेतुं नापेक्षते ।
अनुकरणे तु सर्वेषाम् । (मू का० ५९, द्वि..) . श्रुतिकटुप्रभृतीनों दोषाणामदोषता । यथा
मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् ।
पश्येष च गवित्याह सुत्रामाणं यजेति च ॥ अयं जनः मृगचक्षुषं हरिणनयनं अद्राशर-दृष्टवानस्मि इत्यादि कथयति वदति इति श्रुतिकटु । एष जन गविति गो इति शब्दः आह चदतीति पश्यावलोकय इति च्युतसंस्कृत्युदाहरणम् । सुत्रामाणं इन्द्रं जयेति (यजेति) च आहेत्यनुषज्यते । अप्रयुक्तमिदम् । वक्त्रायौचित्यवशाद दोषोऽपि गुणः कचित् कचिन्नोभो ।।
(मू०का ५९,३०) वैयाकरणप्रतिपाद्ये वतरि वा वीरादौ रसे च कष्टत्वं गुणः । क्रमेणोदा० -
दीधीवेवीसमः कश्चिद् गुण-वृद्ध्योरभाजनम् ।
विपप्रत्ययनिभः कश्चित् यत्र संनिहिते न ते ॥ अत्र वैयाकरणो वक्ता, अतो अतिशयेन यैयाकरणप्रतीतेर्गुणत्वम् ।
यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च पाप( संमदम् ।। अत्र वैयाकरणे प्रतिपाये कष्टत्वं गुणः । तेन तस्य प्रतीत्य तिशयात् । रौद्ररसे यथा- प्रागुदाहते 'मू मुद्वृत्तकृते' त्यादौ, 'उत्कृत्योत्कृत्ये त्यादौ चोत्कर्षवर्णा ओजो व्यञ्जयन्तः प्रकृतवीर-बीभत्सयोरानुगुण्यमदधत । . . वाच्यवशाद् यथा
गर्जयनघटाटोपे हरौ हुङ्कारकारिणि ।
किमन्यैरपि दुर्दान्ताः सीदन्ति सुरदन्तिनः ॥ अत्र सिंहे वाच्ये प० ३४.१] परुषाः शब्दाः गुणाः । प्रकरणवशाद् यथा