________________
"सतम उल्लास इयं परिसमाप्यते रणकथाऽद्य दो शा[ ५० ३३. १ लिना
मौतु रिपुकाननातिगुरुरध भारो भुवः ।। ___अत्र शयितः प्रयत्नेन मोध्यसे इति विधेयम् । प्रबोध एव वियत्वविधान्तिरिति विधेयाविमर्शेऽन्तर्भावः । अनुवादायुक्तम्, यथा -
- अरे रामाहस्ताभरण! भसलश्रेणिशरण ! - स्मरक्रीडाब्रीडास(श)मन ! विरहिनाणदमन! । सरोइंसोत्तंस! प्रचलदल नीलोत्पल सखे !
सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥ विक्रमोर्वशीनाटकगतं यद्यमिदम् । नीलोत्पलं प्रति नाना सम्बोध्य उर्वशी केति प्रश्नः । अत्र विरहिणः पुरूरवसो मोह श्लथने विधेये विरहिप्राणदमनस्वेन अनुवादो मोचित इतीदमप्यनुचितार्थम् । .
तथा, त्यक्तपुनस्वीकृतः- त्यक्त उपसंहतैकदेशः पुनः स्वीकृतः पुनः प्रकाशितैकदेशः । यथा- 'लमं रागायताक्ये त्यत्र विदितं तेऽस्त्वित्यनेन यावतोऽर्थाननिवेद्याननिवेधेद मध्ये उपसंहाराभिधानात् । तथा चात्र समाप्तपुनराचे चावृत्तिकपनमुत्थाप्याकास्वमेव दूषकताबीजमित्येतयोरमेदो न्याय्यः । अश्लीलं यथा
हन्तुमेव प्रवृत्तस्य स्तब्धस्य चिरवैरिणः (विवरैषिणः)। . यथाऽऽशु जायते पातो न तथा पुनरुवतिः ॥ अन पुंव्यञ्जनस्यापि प्रतीतिरिदमप्यनुचितार्थम् । अवेदानीं एते दोषाः कचिददोषा इत्याह -
कर्णावतंसादिपवे कर्णाविध्वनिनिर्मितिः । ( ० ० ५८)
सन्निधानादियोधार्थम्, यथा
तस्याः कर्णावतंसेन जितं सर्वविभूषणम् ।
तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ अवतंसः कर्णाभरणमुच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपतये तेन वर्णनीयोत्कर्षः प्रतीयते । स्वतो न भूषणान्तरजेतृत्वम् , अपि तु तत्कर्णसम्बन्धादिनेति पर्यवसानात् । अत्रावस्थितिप्रयोजनहेतुत्वान्न पुनरुक्तत्वम् । एवमन्यत्रापि
स्थितेष्वेतत् समर्थनम् ॥ (मू० का० ५८, ३. च.) न खलु कर्णावतंसादिपदवत् जघनकात्रीत्यादि क्रियते ।
ख्यातेऽर्थे निर्हेतोरदुष्टता, (मू० का० ५९, प्र० ब०)