________________
काव्यप्रकाशलण्डन यस्य वरस्थाज्ञा नियोगरूपा शक्रस्पेन्द्रस्य शिखायां मस्तके यो मणी रखें तत्र प्रणयिनी प्रीतियुक्ता । इन्द्रेणापि यदाज्ञा मस्तकेन प्रियत इत्यर्थः । शास्त्राण्येव यस्य नवं नुतनं चक्षुः नेत्रम् । भूतानो प्राणिनां पतौ पिनाकिनि पिनाकधनुर्द्धरे परमकारुणिके भगवति भवानीपरिबुद्धे भक्तिः । लङ्का इति दिव्या देवयोग्या पुरी नगरी सैव यस्य पदं स्थानम् । द्रुहिणव शे यस्योत्पत्तिर्जन्म । एष चेद रावणो न स्यात् तवा इहग वरो न लभ्यते । स्पष्टं शेषम् । अत्र स्याचेदेष इत्येतावतैव समाप्यम् । तथा हि- अत्र [प. ३२.२ ] राषणं प्रत्युपेक्षाचाक्यार्थः स्याश्चेदेष न रावणः इत्यन्तेनैव प्राप्तः । क नु पुनः इत्यादिना समर्थनं नाकाङ्कतीति इदमप्यनुचितार्थम् । केचित् तु प्रकृतार्थ विरुद्धार्थकपदशालिवं अपदयुकत्वं तेन अपदयुक्तत्वमेव पाठ इत्याहुः ।। समभिन्याहतविजातीयार्थत्वं सहचर भिन्नत्वम् , यथा
श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्कन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः. सहचरैः व्यसनमूर्खतयोभिन्नत्वम् । इदमप्यनुचितार्थम् । प्रतिपादितविवक्षितार्थबिरोधिव्यञ्जकार्थत्वं प्रकाशितविरुद्धत्वम् । विरुद्ध प्रकाश्यत इति गर्भितप्रस्तावे व्याख्यातम् । यथा
लग्नं रागाधृताङ्ग्या सुदृढमिह यौवासियष्ट्याऽरिकष्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनासि दत्ता
भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधिं यस कीर्तिः ॥ रुधिराक्तशरीरया यया खायष्ट्या बैरिकण्ठे लमं सक्तं या च हस्तिषु पतन्ती वैरिपुरुषैदृष्टा तद्धस्तोऽयं किश्चित् परसैन्यादिकं न मन्यते । चैरिकण्ठलमा मातशेषु चाण्डालेषु च पतिता स्त्री अनेन भुज्यत इति व्यन्यम् । श्रीः समुद्रं खपितरं वदति- इदं तव विदित. मस्तु त्वं जानीहीत्यर्थः । अहं साध्वी तेन भृत्येभ्यो दत्ताऽस्मि इति लक्ष्मीनिर्देशात् एतत्समुद्रं वक्तुमिव यस्य कीर्तिस्तं प्रति गतेत्यर्थः । अत्र विदितं तेऽस्तु इत्यनेन वैदयितव्यानुचितार्थाभिधानेन क्रोधाभिध्यक्तेः श्रीस्तस्मादपसरतीति विरुद्ध प्रकाश्यते इदमप्यनुचितार्थम् ।
विध्यनुवादपदाभ्यां [अ]युक्तं पदं प्रत्येकमन्वेति तेन विध्यनुयुक्तः (विध्ययुक्तः) अनुवादायुक्तश्चेति दोषद्वयम् । अयुक्तत्वं न तु विधेयत्वानवगम इति विधेयाविमर्शतो भेदः । यथा
प्रयत्नपरियोधिः तस्तुतिभिरय शेषे निशा
मकेशवमपाण्डवं भुवनमद्य निासोमकम् ।