________________
सप्तम उल्लास
५९
कृत्वा चन्द्र चन्द्रमर्स कणाः चूर्णयत सेना हस दिए दिग्दशकं मवलोकयितुं क्षमे शोमि । कीइयो दश दिशः । तद्वक्त्रमेव मुद्राचिह्नं तयाऽङ्किता विहिता इत्यर्थः । श्यामापदोपादाने कृते योग- रूढिभ्यां श्यामत्वं प्राप्तमेव । तत्र श्यामलिमाऽऽपादनं व्यर्थम् । अत्र ज्योत्स्यामिति श्यामाविशेषो वाच्यः । एतस्य न्यूनपद एवान्तर्भावः । यत्र यो विशेष न युक्तः तत्र तस्योक्तिर्वक्तव्यस्यानुक्तिः । अविशेषपैरिवृत्तः, यथा -
कल्लोलवेल्लितष्टपत्परुषप्रहारै रतान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुमेन विहितो भवतो न नाम याच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥ अत्र 'एकेन किं न विहितो भवतो न ( भवतः स ) नाम' इति वाच्यम् । यतो येषामेकेनोपकृतं तदितरेष्वनादरोऽयुक्तः ।
विशेषस्योपकारित्वे सामान्येषु कथमादरः ? इति प्रतीतिमान्धर्यम् । अस्यापि न्यूनपद एवान्तर्भावः ।
अनुपाताकाङ्क्षाविषयत्वं साकाश्वम् । यथा -
अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्षं च परस्य मानयशसोर्वि (सं) सनं चात्मनः
स्त्रीरनं च जगत्पतिर्दशमुखी देवः [५. ३२. १. ] कथं मृष्यति ॥ रावणदूतस्य एतद्वचनम् - प्रमोः रावणस्य अर्थित्वे याचकत्वे प्रकटीकृतेऽपि व्यक्तीकृते ऽपि न फलप्राप्तिः न सीतालाभः । न केवलफलामाप्तिः अपि तु शत्रोस्तत्मा सिरित्याह – प्रत्युत दाशरथिः रामः सन् रावणद्रोहं कुर्वन् तया सीतया युक्तो मिलितः । विरुद्धचरितो रावणेन समं विरुद्धं चरितं चरित्रं यस्य सः । परस्य रामस्य, उत्कर्षः आधिक्यं, आत्मनः स्वस्य, मान- यश सोरभिमान कीत्योर्विश्र (सं) सनं निराकरणम्, स्त्रीरले च सीतारूपम् दशमुखो रावणः, जगत्पतिः पृथिवीपतिः, कथं मृष्यति न मृष्यतीत्यर्थः । अत्र स्त्रीरत्वमित्युपेक्षितुमाकाङ्क्षति अन्यस्त्रीरत्नमिति कथं मृष्यतीत्यनन्वितं स्यात् । तथा हि कथं न मृष्यतीत्यस्य कथं न द्वेष्टीत्यर्थः स्यात् । मृषधातोरद्वेषार्थलात् । तथा च स्त्रीरत्नस्य द्वेषायोग्यले कथं कथमित्यादिना अन्वयः । ततश्च न्यूनपद एवं साकाङ्क्षत्वस्यान्तर्भावः समुचितः ।
अपदमुक्तत्वं अस्थानसमाप्यत्वम्, यथा
आशा शशिखामणिप्रेणयिनी शास्त्राणि चतुर्नव भक्तिर्भूपती पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्दुहिणान्वये च तदहो नेहरा वरो लभ्यते
स्याच्चदेष न रावणः क्व तु पुनः सर्वत्र सर्वे गुणाः ॥
१ " श्यामामित्यक ज्योतीमिति विशेष विहाय श्यामामिति सामान्यनक्तमिति विशेषपरिवृत इत्यर्थः । २ यत्र सामान्यं विद्वाय विशेषशक्तिः । ३ मा दश कुरुथाः । ४ देतोः । शिखामणामेव सदा तिष्ठतीति भावः । इति डि० ।