________________
५०
काव्यप्रकाशखण्डन
लिखितार्थमेव लिखितं निर्माणमेतद् विधेरुत्कर्ष प्रतियोगि कल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुलक्ष्य यत्सम्पदस्तस्याभासमणीकृताश्मसु मोरश्मत्वमेवोचितम् ॥
यत्र यस्मिन् मणौ विधातुरेतन्निर्माणमुत्पादनं अनिर्वचनीय प्रयोजनमेव लिखितम् । एतस्मादयमहिति । सः प्राणिनां मनोरथगोचरापि न छायामाश्रमणीकृताश्मल्ल आमासमात्रेण । श्रमणय एव मणीकृता ये अश्मानो दृषदस्तेषु तस्य मणेरस्मत्वमेवोचितं इति नियमत्वं वाच्यम् । तथाकृते गुणान्तरव्यवच्छेदेन निन्दातिशयप्रतीतेः । प्राकृतमणिगणनायां चिन्तामणिगणनमनुचितमित्यर्थः । एतस्स न्यूनपद् एवान्तर्भावः ।
अविवक्षित नियमस्य शब्देन प्रतिपादन मनियमपरिवृत्तः । यथा - dearम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चत्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानाभिलाषः ॥
अस्यार्थः - सरस्वती भारती, नदीभेदश्च । शोणो रक्तो नदश्च । सादृश्यात् सेतुबन्धे दर्शनाच्च काकुत्स्थवीर्थस्मरणम् । दक्षिणः सव्येतरः, दिग्विशेषध । समुद्रो मुद्रां अङ्गुलीयकं
'तत्सहितः, जलनिधिश्व | वाहिन्यः सेनाः नद्यश्च । मानसे मनसि सरसि च
ラ
चत्र शोण
"
एवेति नियमो न वाच्यः । पिपासोर्नद्यन्तरव्यवच्छेदस्याविवक्षितत्वात् । ननु अस्याधिकपद
एवान्तर्भाव इति चेत् न । यत्र सोऽर्थः तद्व्यतिरेकेणापि प्राप्यते तत्राधिकपदत्वम् । यत्र तेन न प्राप्यते किन्त्वन्येन अविवक्षितश्च भवति तत्रायम् । वस्तुतस्तु अतिरिक्के प्रमाणाभावादधिकपदस्यैव भेदः ।
प्रासस्य [प. ३१.२] विशेषस्य पुनरापादनं विशेषपरिवृत्तः । यथा श्यामां श्यामलिमानमानयत भोः सान्द्रेर्मपीकूर्चकैः तत्रं मत्रमथ प्रयुज्य हरत वेतोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ श्यामां अन्धकारिणीं रात्रिं श्यामलिमानं श्यामतां आनयत संपादयत । मोरिति सम्बो धने । कैरित्याह - सान्द्रैर्निविडैर्मषी कूर्चकैः मषीक्षोदेः । मषीयुक्तं कूर्चकं चित्रकरले खिनी । मन्त्रमागमादिशास्त्रोक्तम् । तत्र शास्त्रं वैद्यकादि । तदुक्तप्रयोगस्तदुक्तमेषजादिकरणम् । तत् कृत्वा श्वेतोत्पलानां श्वेतकमलानां श्रियं कान्ति हरत । शिलापट्टके पाषाणपट्टको परि
-