Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 81
________________ सप्तम उल्लास ध्यानमा दयितानने मुकुलिता मातङ्गचर्माम्बरे __ सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मील सरमिन्धदर्शनविधौ म्लाना कपालोदरे, इत्यादि युक्तम् । एवं कृते ब्रीडादिव्यमयतासिद्धेः । एवं रसस्य रसशब्देन शृङ्गारादिशब्देन वाच्यत्वम् । क्रमेणोदा० - सामनङ्गजयमङ्गलश्रिय किञ्चिदुच्चभुजमूललोकिताम् । नेत्रयोः कृतक्तोऽस गोचरे कोऽप्य जायत रसो निरन्तरः ।। तां नायिका नेत्रयोर्लोचनयोर्गोचरे विषये कृतवतः अस्य पुरुषस्य कोऽप्यनिर्वचनीयो रसः निरन्तरः अनुस्यूतः अजायत उत्पत्तिमगात् । तां किशीम् ? अनङ्गस्य कामस्य [प. ३६.२ ] जयार्थ मन्मङ्गलं तस्य श्रीः शोमा किञ्चिदीपदुच्चं यद्भुजयो होर्मूलं तत्र लोकितां दृष्टामित्यर्थः । 'आलोक्य' इति । एष नायकः शृङ्गारसीमनि शृङ्गारप्रथमप्रान्तमागे तरङ्गितं चावश्य सलीलगृहारं वा आतनोति विस्तारयति । कीदृशः ? बाल्यं शैशवं अतिवृत्य अतिक्राम्य विशेषेण वर्तमानः । किं कृत्या ! अभिरामरूपां सुन्दररूपा आलोक्य दृष्ट्वा । कीदृशीम् । कोमल्योः कपोलतलयोः अभिष(वि)कः संबद्धो व्यक्तः प्रकटो योऽनुरागः प्रणयस्वेन सुभगां शोभनामित्यर्थ । 'संप्रहार' इति । तस्स राज्ञः प्रहरणैरस्त्रैः संप्रहारे सङ्ग्रामे कोऽप्यनिर्वचनीयः उत्साहः जमज्जातः । कैः श्रुतिगतैः कर्णप्राप्तैः परस्परमन्योऽन्यं महाराणां शस्त्रक्षेपरूपाणां झणत्कारैः शब्दविशेषैरित्यर्थः। आलोक्य कोमलकपोलतलाभिषिक्त व्यक्तानुरागसुभगामभिरामरूपाम् । पश्यैष बाल्यमतिवृत्त्य विवर्चमानः गृङ्गारसीमनि तरङ्गितमातनोति ॥ एवं स्थायिनो यथा संग्रहारे प्रहरणैः प्रहाराणां परस्परम् । झणत्कारैः श्रुतिगतः उत्साहः तस्य कोऽप्यभृत् ॥ अत्रोत्साहस्य । तत्र नवीनाः प्रत्यवतिष्ठन्ते । व्यभिचार्यादीनां स्वशब्दवाच्यता न दोषाय किन्तु गुणायैव, तत्तदर्थानां शीघ्रोपस्थितिकस्वात् । अत एव महाकवीनां तथैवोपनिबन्धात् । यथा दादुत्सुकमागते विचलितं संभाषिणि स्फारित संश्लिष्यत्यरुणं गृहीतवसने किञ्चाश्चितभूलतम् ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130