Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 88
________________ ६६ तत्र शेषादीन् क्रमेणाह - बहून पदानां एकवद्भासनं लेषः । सन्धिसौष्ट ( 8 ) बादेकस्था नीयवर्णविन्यासात् । यथा -इत्यादौ । काव्यप्रकाशखण्डन अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ समग्राणां घटनादीनां यथा - इषु(क्षु) च्छायानिपादिन्यस्तस्य गोमुर्गुणोदयम् । आकुमारकथोद्भूतं शालिगोप्यो जगुर्यशः ॥ समता मार्गाभेदः । यया रीत्या उपक्रमस्तया समापनं [ मार्गा-] भेदः । वथा - अनङ्गरप्रतिमं तदङ्कं मङ्गीभिरङ्गीकृतमानतायाः कुर्वन्ति यूनां सहसा यथेमाः स्वान्तानि शान्तापरचिन्तनानि ॥ आनतात्या नम्रशरीरायाः अक्रं शरीरं तथा मङ्गीभिरङ्गीकृतं स्वीकृतं यथा एता भयः यूनां खान्तानि मनांसि शान्तापरः शृङ्गारः तचिन्तनानि तत्प्रवणानि कुर्व्वन्ति इत्यर्थः । पृथक्पदत्वं माधुर्य सुश्रयत्वं वा । 'वैवखतो मनुर्नामे' त्यादि । सुकुमारता परुषेतरवर्णशालित्वम् । यथा - 'अपसारय घनसार मित्यादौ । अर्थव्यक्तिः झटित्यर्थसमर्पणम् । यथा - 'इक्षुच्छाया' इत्यादी । उदारता विकटत्वरूपा । विकटत्वं च पदानां विच्छेदात् नृत्यत्प्रायत्वम् । यथा - सुचरणविनिस टैर्नृपुरैर्नर्सकीनां मणितरणितमासीत् तत्र चित्रं कलं च । ओजो [१० ४१. १ ] गाढबन्धत्वम् । उदाहरणम् - 'मूर्ध्नाद्वृत्तकृत्ते त्यादौ । कान्तिरौज्जवल्यम् । हलिका दिसाधारण पदविन्यासपरित्यागेन लौकिकशोभाशालित्वम् । यथा - कलकणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुम्बति प्रियाम् || आरोहावरोहरूपः समाधिः । आरोहो गाढता, अवरोह: शैथिल्यं तयोः क्रमः । क्रमेण निबन्धः । यथा चञ्चद्भुज अमितचण्ड गदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनधनशोणितशोणशोचिरुतंसयिष्यति कचांस्तव देवि ! भीमः || अत्र संचूर्णितान्ते आरोहः, सुयोधनान्ते अवरोहः । पुनस्तदन्ते पूर्वः, नीम इत्यन्ते परः । न पुनर्दशेति । एते षादयो न गुणाः । गुणा हि रसधर्मा इत्यत्र प्रमाणाभावात् । पते शब्दगुणाः स्वीकार्याः रसोत्कर्षकस्यात् । ननु तथासति गुणालङ्कारयोर्विभागोऽनुपपन्नः

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130