________________
६६
तत्र शेषादीन् क्रमेणाह - बहून पदानां एकवद्भासनं लेषः । सन्धिसौष्ट ( 8 ) बादेकस्था
नीयवर्णविन्यासात् । यथा
-इत्यादौ ।
काव्यप्रकाशखण्डन
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत । साधारणः समग्राणां स प्रसादो गुणो मतः ॥
समग्राणां घटनादीनां यथा -
इषु(क्षु) च्छायानिपादिन्यस्तस्य गोमुर्गुणोदयम् । आकुमारकथोद्भूतं शालिगोप्यो जगुर्यशः ॥
समता मार्गाभेदः । यया रीत्या उपक्रमस्तया समापनं [ मार्गा-] भेदः । वथा - अनङ्गरप्रतिमं तदङ्कं मङ्गीभिरङ्गीकृतमानतायाः
कुर्वन्ति यूनां सहसा यथेमाः स्वान्तानि शान्तापरचिन्तनानि ॥
आनतात्या नम्रशरीरायाः अक्रं शरीरं तथा मङ्गीभिरङ्गीकृतं स्वीकृतं यथा एता भयः यूनां खान्तानि मनांसि शान्तापरः शृङ्गारः तचिन्तनानि तत्प्रवणानि कुर्व्वन्ति इत्यर्थः । पृथक्पदत्वं माधुर्य सुश्रयत्वं वा । 'वैवखतो मनुर्नामे' त्यादि ।
सुकुमारता परुषेतरवर्णशालित्वम् । यथा - 'अपसारय घनसार मित्यादौ । अर्थव्यक्तिः झटित्यर्थसमर्पणम् । यथा - 'इक्षुच्छाया' इत्यादी ।
उदारता विकटत्वरूपा । विकटत्वं च पदानां विच्छेदात् नृत्यत्प्रायत्वम् । यथा
-
सुचरणविनिस टैर्नृपुरैर्नर्सकीनां मणितरणितमासीत् तत्र चित्रं कलं च । ओजो [१० ४१. १ ] गाढबन्धत्वम् । उदाहरणम् - 'मूर्ध्नाद्वृत्तकृत्ते त्यादौ । कान्तिरौज्जवल्यम् । हलिका दिसाधारण पदविन्यासपरित्यागेन लौकिकशोभाशालित्वम् । यथा - कलकणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुम्बति प्रियाम् ||
आरोहावरोहरूपः समाधिः । आरोहो गाढता, अवरोह: शैथिल्यं तयोः क्रमः । क्रमेण निबन्धः । यथा
चञ्चद्भुज अमितचण्ड गदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनधनशोणितशोणशोचिरुतंसयिष्यति कचांस्तव देवि ! भीमः || अत्र संचूर्णितान्ते आरोहः, सुयोधनान्ते अवरोहः । पुनस्तदन्ते पूर्वः, नीम इत्यन्ते परः । न पुनर्दशेति । एते षादयो न गुणाः । गुणा हि रसधर्मा इत्यत्र प्रमाणाभावात् । पते शब्दगुणाः स्वीकार्याः रसोत्कर्षकस्यात् । ननु तथासति गुणालङ्कारयोर्विभागोऽनुपपन्नः