________________
माटम उल्लास
इदानीं गुणानां मैदानाह -
माधुयोजाप्रसादाख्यास्त्रयस्ते न पुनर्देश ।
आझादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् ॥ (मू० का० ६८) अर्थात् संमोगे । द्रुतिर्गलितत्वम् । इह हि सामाजिकानां 'चिनेषु नवरसजन्याः तिस्रोऽवस्खाः । द्वतिः विस्तारो विकासश्च । तत्र भृक्षारकरुणशान्तेभ्यो द्रुतिः, वीरबीभत्सरौद्रेभ्यो विस्तारः, हास्याद्भुतभयानकेभ्यो विकासः । येन हास्ये बदनविकासः, अद्भुते नयनविकासः, भयानके द्वतापसरणमिति । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
(मू का० ६९, पृ०) अत्यन्तनुतिहेतुत्वात् ।
दीत्यात्मवितेतुरोको वीररसस्थिति ॥ का ६९, उ• ) चितस्य विस्ताररूपदीप्तत्वहेतुरोजः ।
वीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । (मू० मा० ४०, ५०) वीराद बीमत्से ततोऽपि रौद्रे सातिशयमोजः । एवं हास्ये शृङ्गारामता(तया) माधुर्य प्रकृष्टविकासधर्मतया ओजोऽपि प्रकृष्टम् । एवमद्भुतेऽप्योजः । माधुर्यमप्याहादकरूपतया भयानकेऽप्येवमेव । माधुर्यममचित्तवृत्तिखभावत्वेऽपि विभावस्य दीप्तरसतया ओजः प्रकृष्टं च । शुष्कन्धनादि(ग्निवत् खच्छजलवत् सहसैव यः॥
(मू. का. ४०, उ.) ग्रामोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः।
(मू० का ७, पृ.) अन्यदिति । व्याप्यमिह चित्तम् । यदा वीररसादिषु चित्तं व्यामोति तदा [प० ४०, २] शुष्कन्धनादि(मि)वत् । यदा शृङ्गारकरुणादिषु तदा खच्छजलवदिति । सर्वत्रेति सर्वेषु रसेषु सर्वासु रचनास । झटिति प्रत्या(ती)यमानत्वं रसेषु, झरिति प्रत्यायकत्वं रचनादिषु । ननु यदि तेन शब्दार्थयोस्तक्षा कथं लक्षणे सगुणावित्युक्तमिति चेत् , इत्यत आह -
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ (मु० का० ७१, उ.) गुणवृत्त्या उपचारेण व्यञ्जकत्वेन तद्वत्त्वमुपचर्यत इत्यर्थः । दशेति परोक्ताः । तदुक्तम् -
श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वं ओजाकान्तिसमाधयः ।
इति वैदर्भमार्गस्य प्राणा दशगुणा स्मृताः ।। मामोस्सन्यत्' इति मु. पर।
का०प्र०९