________________
३४
काव्यप्रकाशखण्डन इत्यादी अनुप्रासेन कोमलया वृस्या शब्दानां अलकरणद्वारा विप्रलम्मो रस उपक्रियते । तथा,
मनोरागस्तीव्र विषमिव विसर्पत्यविरतं
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यक्षं ज्वर इव गरीयानित इतो
न मांत्रातुं तातः प्रभवति न चाम्बा न भवती ।। अत्र पाध्यसुखेन मालारूपकेण तीविषादित्वं मनोरागे प्रत्याय्य विलम्म उत्कृप्यते । उक्तिवैचित्र्यमानपर्भवसिता इति । उक्तिवैचित्र्यं शब्दानां सुश्रवत्वं बन्धकौशलवं च । अर्थानामीषन्मनोहारित्वं 'शीर्णघाणात्रिपाणि.' इत्यादौ सुप्रसिद्धमुदाहार्यम् । सतोऽप्यनुपकारित्वमुदाहरति, यथा
चित्ते चहुदि न खुट्टति सा गुणेसु
सेजाइ लुट्टदि विसङ्गति दिम्सुहेसु । योजनादि नदि पवार
कण्णेन तुद्ददि चिरं तरुणी सरड्डी ॥ तरट्टी प्रशस्ता । अथ वा
थालाना सुम्बनालिसा कबरीमोक्षबन्धने ।
कर्णकपडूयनं त्रीणां तरष्टीलक्षणं स्मृतम् ।। इति लक्षणेनात्यारूढमनोभवा नायिका तरट्टी द्रष्टव्या । अत्र सन्तमपि रसे नोपकरोति ओजोव्यञ्जकस्य परुषानुप्रासस्य विप्रलम्भाननुकूलत्वात् । प्राकृतस्य ओजोगुणव्यञ्जकप्रधानत्वात् तदनुकूलत्वेनादोषत्वाश्च । तथा
मित्रे कापि गते सरोरुहयने बद्धानने ताम्यति
क्रन्दत्सु अमरेषु वीक्ष्य दयितासनं पुरः सारसम् । चक्राण वियोगिना विश(स)लता नावादिता नोज्झिता,
वक्त्रे [प० ४०.१] केवलमर्गलेच निहिता जीवस्य निर्गच्छतः ॥ मित्रे सूर्ये सुहृदि व कापि कुत्रापि गते प्राप्ते सति कमलवने मुद्रिते अवचने च ताम्यति । निःश्रीके तप्यमाने च सति भृङ्गेषु तारखरेण शब्दायमानेषु रोदनवत्सु च पुरः अमे दयितासन्नां कान्तसमीपवर्तिनी सारसी दृष्ट्वा वियुक्तेन चक्रवाकेन मृणाललता न मक्षिता, न त्यक्ता नोज्झिता । केवलं निर्गच्छतो निःसरतो जीवस्य अर्गलेव परिघ इव वक्त्रे न्यस्तेत्यर्थः । अत्र विप्रलम्मे जीवापगमसैय वर्णनीयत्वे तत्प्रतिबन्धकवर्णने सन्तमपि विमलग्मं उपमा नोपकरोति एष एव गुणालकार विवेकः ।