Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
३४
काव्यप्रकाशखण्डन इत्यादी अनुप्रासेन कोमलया वृस्या शब्दानां अलकरणद्वारा विप्रलम्मो रस उपक्रियते । तथा,
मनोरागस्तीव्र विषमिव विसर्पत्यविरतं
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यक्षं ज्वर इव गरीयानित इतो
न मांत्रातुं तातः प्रभवति न चाम्बा न भवती ।। अत्र पाध्यसुखेन मालारूपकेण तीविषादित्वं मनोरागे प्रत्याय्य विलम्म उत्कृप्यते । उक्तिवैचित्र्यमानपर्भवसिता इति । उक्तिवैचित्र्यं शब्दानां सुश्रवत्वं बन्धकौशलवं च । अर्थानामीषन्मनोहारित्वं 'शीर्णघाणात्रिपाणि.' इत्यादौ सुप्रसिद्धमुदाहार्यम् । सतोऽप्यनुपकारित्वमुदाहरति, यथा
चित्ते चहुदि न खुट्टति सा गुणेसु
सेजाइ लुट्टदि विसङ्गति दिम्सुहेसु । योजनादि नदि पवार
कण्णेन तुद्ददि चिरं तरुणी सरड्डी ॥ तरट्टी प्रशस्ता । अथ वा
थालाना सुम्बनालिसा कबरीमोक्षबन्धने ।
कर्णकपडूयनं त्रीणां तरष्टीलक्षणं स्मृतम् ।। इति लक्षणेनात्यारूढमनोभवा नायिका तरट्टी द्रष्टव्या । अत्र सन्तमपि रसे नोपकरोति ओजोव्यञ्जकस्य परुषानुप्रासस्य विप्रलम्भाननुकूलत्वात् । प्राकृतस्य ओजोगुणव्यञ्जकप्रधानत्वात् तदनुकूलत्वेनादोषत्वाश्च । तथा
मित्रे कापि गते सरोरुहयने बद्धानने ताम्यति
क्रन्दत्सु अमरेषु वीक्ष्य दयितासनं पुरः सारसम् । चक्राण वियोगिना विश(स)लता नावादिता नोज्झिता,
वक्त्रे [प० ४०.१] केवलमर्गलेच निहिता जीवस्य निर्गच्छतः ॥ मित्रे सूर्ये सुहृदि व कापि कुत्रापि गते प्राप्ते सति कमलवने मुद्रिते अवचने च ताम्यति । निःश्रीके तप्यमाने च सति भृङ्गेषु तारखरेण शब्दायमानेषु रोदनवत्सु च पुरः अमे दयितासन्नां कान्तसमीपवर्तिनी सारसी दृष्ट्वा वियुक्तेन चक्रवाकेन मृणाललता न मक्षिता, न त्यक्ता नोज्झिता । केवलं निर्गच्छतो निःसरतो जीवस्य अर्गलेव परिघ इव वक्त्रे न्यस्तेत्यर्थः । अत्र विप्रलम्मे जीवापगमसैय वर्णनीयत्वे तत्प्रतिबन्धकवर्णने सन्तमपि विमलग्मं उपमा नोपकरोति एष एव गुणालकार विवेकः ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130