Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 85
________________ अएम उल्लास अष्टम उल्लासः। दोषानुक्त्वा गुणालङ्कारयोविवेकमाह - ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतघस्ते [प० ३९.१] स्युरचलस्थितयो गुणाः ॥ (मू• का० ६६) अस्मार्थः- काव्यं प्राधान्यन स्थितस्य रसस्स ये धर्माः साक्षात् तदाश्रिता इत्यर्थः । तत्र दृष्टान्तः -आत्मनः एव शौर्यादयो गुणाः न शरीरस्य, तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् । ननु कथं तर्हि वामनादीनां वर्णगतत्वेन व्यवहार इति चेत्, उच्यते - समुचितैर्वणैव्य॑ज्यन्ते गुणा इति व्यङ्ग्यव्यञ्जकभावरूपपरम्परासम्बन्धेन वर्णगतस्वेन व्यवड़ियन्ते, न साक्षात् । यथाऽवच्छेदकतासम्बन्धेन शौर्यादयः शरीरे । अचलस्थितयो नियतावस्थितयः । नैयत्यं च रसेन तदुपकारेण च । तथा च ते रसं विना नावतिष्ठन्ते । अवस्थिताश्चावश्यमुपकुर्वन्ति । अत एव एतयोर्द्धर्मयोर्व्यतिरेकमलकारे वक्ष्यति । रसस्यावश्यं उपकारित्वे सति रस विनावस्थितिशून्यत्वम् । गुणत्वमिति तु गुणलक्षणमित्यन्ये । नवीनास्तु रसोत्कर्षहेतुत्वे सति रसधर्मत्वं इत्याहुः । परे तु रसधर्मा गुणास्ते चोत्कर्षरूपाः । वन्यजकस्य काव्यस्य उत्कर्षकाश्च । तदाह उत्कर्षहेतव इति । तेन दोषव्यवच्छेदः । उत्कर्षहेतुपु अलकारादिषु अतिव्याप्तिवारणाय अचलस्थितय इति । अचला नियता स्थितियेषां ते । तथा रसविशेषनियतविशेषा रसधर्मा इत्यर्थः । शृङ्गारादौ माधुर्यस्य वीरादौ ओजसश्च नियतत्वात् | अलहाराणां च सर्वेषां सर्वरसोत्कर्षकत्वात् । ननु 'अयं स रशनो' इत्यादौ अङ्गतां प्रापरति शृक्षारे माधुर्यध्यक्षकवर्णविरहेण अव्याप्तिरित्यत अङ्गिन इति । अजिन्येव स्थितिनियमो नाग इति वदन्ति । ___ अलकारेषु उक्तगुणधर्मराहित्य दर्शयितुं अलकारखरूपमाह - उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिषदलकारास्तेऽनुप्रासोपमादयः ॥ (मू० का०६७) ये वाच्य-याचकलक्षणातिशयमुखेन मुख्यं रसे संभविनमुपकुर्वन्ति तेऽलङ्काराः । तत्र दृष्टान्तः- कण्ठाचगानां उत्कर्षाधानद्वारेण [प० ३९. २ ] शरीरिणोऽप्युपकारकाः, हारा इवेत्यर्थः । तेन अलकारा रसं विना अवतिष्ठन्ते, अवश्यं च नोपकुर्वन्ति, न वा रसे साक्षादिति । किन्त्वनद्वारेति गुणेभ्यो विलक्षणा एत इति ध्येयम् । यत्र तु नास्ति रसस्तत्र उक्तिमात्रवैचित्र्यपर्यवसायिनः । कचित् सन्तमपि नोपकुर्वन्ति । अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं वाला ॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130