Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशमान मानिन्याश्रणानतिव्यतिकरे बापाम्बुपूर्णक्षणं
चक्षुर्जातमहो प्रपश्चचतुरं जातागसि प्रेयसि ।। उत्सुकमित्योत्सुक्यस्य' शब्दवाच्यता मावा --
औत्सुक्येन कृतत्वरा सहभुत्रा व्यावर्चमाना हिया
तैस्तैवेन्धुवधूजनस्य वचनैनीताऽऽभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु का | [प० ३७.१] उत्सुकतया कृता खरा यस्याः सा । ततो देहेन सहोत्पन्नया लज्जया हेतमतया अपसर्पन्ती वैस्तैः सखीनां वचनैः सन्निधिं नीता । अग्रे पतिं दृष्ट्वा गृहीतभयरसा प्रथमसङ्गमे उद्भूतरोमाचा सहसा इसता वा हरेणालिङ्गिता गौरी पार्वती वः शिवाय भवत्वित्यर्थः । अत्रौत्सुक्यस्य । यथा वा
स्वमग्रतः सश्चल चञ्चलाक्षि त्वमेव जीवेश्वर निस्सराये ।
इति ब्रुवद् वेश्मनि वह्निदीप्ते मिथोऽनुरागाद् मिथुनं विपन्नम् ॥ अत्रानुरागस्य । यथा वा--
तृषितां हरिणी हरिणः तृपितं हरिणं विजानती हरिणी ।
मितमम्बु पल्यलगतं कपटं पिबत्तः परस्परालोकम् ॥ अथ श्रीडायनुभावैर्विचलितत्वाद्ये डादिवदौत्सुक्यानुभावैरौत्सुक्यादिकं झटिक्ति प्रत्यायितुं न शक्यते इति, औस्सुक्यादीनां झटिति प्रत्ययार्थ स्वशब्दवाच्यतेति चेत्, न । एतस्वार्थस्य शपथेन प्रत्याययितुं शक्यत्वात् । अपि च सिद्धा व्यभिचार्यादीनां झटिति प्रत्ययाहेतुत्वाद स्वशब्दवाच्यता न दोषाय, किन्तु गुणायैवेति ।
'कष्टकल्पनए(ये १)वे'ति क्लिष्ट एवान्तर्भावः । 'प्रतिकूलविभावादिग्रह' इति । यथा शृङ्गारादिकं प्रति प्रतिकूलस्य शान्तस्य विमावादेरुपादानं समूलमुन्मूलयतीति तदेव दूषकतावीजम् । .
'दीप्तिः पुनः पुनः' -विच्छिद्य विच्छिद्य ग्रहणं वेद्यान्तरसम्बन्धेन रसादिविच्छेदो भक्तीति तदेव दूषकताबीजम् । यथा कुमारसंभवे रति विलापे ।
'अकाण्डे प्रथनम्' यथा--वेणीसंहारे द्वितीयेऽके बहूना संक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णने ।
'अकाण्डे विच्छेदो' यथा-वीरचरिते राम-जामदम्ययोर्धारावाहिनि जीससे कारणमोचनाय गच्छामीति रामस्योक्तौ ।
'अङ्गस्याप्रधानस्य अतिविस्तारेण वागनं यथा-हयग्रीववधे हयग्रीवस्य । 'अजिनो अननुसन्धानम् यथा -रत्नावल्या बाभ्रव्यागमने सामरिकाया विस्मृतिः ।
६५. ३५.२.]

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130