SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशमान मानिन्याश्रणानतिव्यतिकरे बापाम्बुपूर्णक्षणं चक्षुर्जातमहो प्रपश्चचतुरं जातागसि प्रेयसि ।। उत्सुकमित्योत्सुक्यस्य' शब्दवाच्यता मावा -- औत्सुक्येन कृतत्वरा सहभुत्रा व्यावर्चमाना हिया तैस्तैवेन्धुवधूजनस्य वचनैनीताऽऽभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु का | [प० ३७.१] उत्सुकतया कृता खरा यस्याः सा । ततो देहेन सहोत्पन्नया लज्जया हेतमतया अपसर्पन्ती वैस्तैः सखीनां वचनैः सन्निधिं नीता । अग्रे पतिं दृष्ट्वा गृहीतभयरसा प्रथमसङ्गमे उद्भूतरोमाचा सहसा इसता वा हरेणालिङ्गिता गौरी पार्वती वः शिवाय भवत्वित्यर्थः । अत्रौत्सुक्यस्य । यथा वा स्वमग्रतः सश्चल चञ्चलाक्षि त्वमेव जीवेश्वर निस्सराये । इति ब्रुवद् वेश्मनि वह्निदीप्ते मिथोऽनुरागाद् मिथुनं विपन्नम् ॥ अत्रानुरागस्य । यथा वा-- तृषितां हरिणी हरिणः तृपितं हरिणं विजानती हरिणी । मितमम्बु पल्यलगतं कपटं पिबत्तः परस्परालोकम् ॥ अथ श्रीडायनुभावैर्विचलितत्वाद्ये डादिवदौत्सुक्यानुभावैरौत्सुक्यादिकं झटिक्ति प्रत्यायितुं न शक्यते इति, औस्सुक्यादीनां झटिति प्रत्ययार्थ स्वशब्दवाच्यतेति चेत्, न । एतस्वार्थस्य शपथेन प्रत्याययितुं शक्यत्वात् । अपि च सिद्धा व्यभिचार्यादीनां झटिति प्रत्ययाहेतुत्वाद स्वशब्दवाच्यता न दोषाय, किन्तु गुणायैवेति । 'कष्टकल्पनए(ये १)वे'ति क्लिष्ट एवान्तर्भावः । 'प्रतिकूलविभावादिग्रह' इति । यथा शृङ्गारादिकं प्रति प्रतिकूलस्य शान्तस्य विमावादेरुपादानं समूलमुन्मूलयतीति तदेव दूषकतावीजम् । . 'दीप्तिः पुनः पुनः' -विच्छिद्य विच्छिद्य ग्रहणं वेद्यान्तरसम्बन्धेन रसादिविच्छेदो भक्तीति तदेव दूषकताबीजम् । यथा कुमारसंभवे रति विलापे । 'अकाण्डे प्रथनम्' यथा--वेणीसंहारे द्वितीयेऽके बहूना संक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णने । 'अकाण्डे विच्छेदो' यथा-वीरचरिते राम-जामदम्ययोर्धारावाहिनि जीससे कारणमोचनाय गच्छामीति रामस्योक्तौ । 'अङ्गस्याप्रधानस्य अतिविस्तारेण वागनं यथा-हयग्रीववधे हयग्रीवस्य । 'अजिनो अननुसन्धानम् यथा -रत्नावल्या बाभ्रव्यागमने सामरिकाया विस्मृतिः । ६५. ३५.२.]
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy