Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 76
________________ कास्यप्रकाराखण्डन यथा चन्द्रं गता पप० ३३. २ ]गुणान् न भुङ्क्ते पाश्रिता चान्द्रमसीमभिरुयाम् । - उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाव लक्ष्मीः॥ लक्ष्मीः शोभा चन्द्रं चन्द्रमण्डलं गता प्राप्ता सती पभगुणान् कमलगुणान् सौरभादीन न मुझे न पामोति । रात्रौ कमलप्रकाशाभावात् पद्माश्रिता कमलाश्रिता चान्द्रमसी चन्द्रसम्बधिनी अभिल्या शोभां न मुक्के । उमामुख प्रतिपद्य प्राप्य द्विसंश्रयां पद्मचन्द्रोमयाश्रयो प्रीति अवाप प्राप्तवतीत्यर्थः । अत्र रात्रौ पद्मस्य सक्कोचो दिवा चन्द्रस निष्प्रभत्वं लोकप्रसिद्धमिति न मुझे इति हेतुं नापेक्षते । अनुकरणे तु सर्वेषाम् । (मू का० ५९, द्वि..) . श्रुतिकटुप्रभृतीनों दोषाणामदोषता । यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् । पश्येष च गवित्याह सुत्रामाणं यजेति च ॥ अयं जनः मृगचक्षुषं हरिणनयनं अद्राशर-दृष्टवानस्मि इत्यादि कथयति वदति इति श्रुतिकटु । एष जन गविति गो इति शब्दः आह चदतीति पश्यावलोकय इति च्युतसंस्कृत्युदाहरणम् । सुत्रामाणं इन्द्रं जयेति (यजेति) च आहेत्यनुषज्यते । अप्रयुक्तमिदम् । वक्त्रायौचित्यवशाद दोषोऽपि गुणः कचित् कचिन्नोभो ।। (मू०का ५९,३०) वैयाकरणप्रतिपाद्ये वतरि वा वीरादौ रसे च कष्टत्वं गुणः । क्रमेणोदा० - दीधीवेवीसमः कश्चिद् गुण-वृद्ध्योरभाजनम् । विपप्रत्ययनिभः कश्चित् यत्र संनिहिते न ते ॥ अत्र वैयाकरणो वक्ता, अतो अतिशयेन यैयाकरणप्रतीतेर्गुणत्वम् । यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च पाप( संमदम् ।। अत्र वैयाकरणे प्रतिपाये कष्टत्वं गुणः । तेन तस्य प्रतीत्य तिशयात् । रौद्ररसे यथा- प्रागुदाहते 'मू मुद्वृत्तकृते' त्यादौ, 'उत्कृत्योत्कृत्ये त्यादौ चोत्कर्षवर्णा ओजो व्यञ्जयन्तः प्रकृतवीर-बीभत्सयोरानुगुण्यमदधत । . . वाच्यवशाद् यथा गर्जयनघटाटोपे हरौ हुङ्कारकारिणि । किमन्यैरपि दुर्दान्ताः सीदन्ति सुरदन्तिनः ॥ अत्र सिंहे वाच्ये प० ३४.१] परुषाः शब्दाः गुणाः । प्रकरणवशाद् यथा

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130