Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 60
________________ काव्यप्रकाशखण्डन ___ अथ पदैकदेशे यथासंभवमुदाहरणम् - अलमतिचपलत्वात् खममायोपमत्वात् परिणतिविरसत्वात् सङ्गमेनागनायाः । इति यदि शतकृत्वस्तत्वमालोचयाम स्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा । अत्र त्वात् इति कष्टम् । एवमन्यदपि ज्ञेयम् । अथ वाक्यमात्रगामिदोषानाह --- प्रतिकूलवर्णमुपहतलुप्सविसर्ग विसन्धि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनरात्तम् ॥ (. का. ५३) अपदस्थपदसमासं विमतपरार्थ प्रसिद्धिपरिहीनम् । (मू. का. ५४, ३०) भग्नप्रक्रममक्र. १३.२ पबमला याकमेव था । (मू का० ५५, ५०) रसानुगुणस्वं वर्णानां प्राचीनसंमतं वक्ष्यते, तद्विपरीतत्वं प्रतिकूलत्वम् । क्या शुभारे अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ।। अत्र मधुरवर्णत्वमुचितम् । एवं रौद्रादौ मसूणवर्णाः प्रतिकूला इति मन्तव्यम् । इदं च न चारु । तत्तद्रसेषु तत्तद्वर्णानामानुकूल्यस्य प्रातिकूल्यस्य या सर्वैरनभ्युपगमलात् । उपहतम् - ओ( उ?)त्वं प्राप्तो लुप्तो वा विसर्गो यत्र तत् । यथा -- धीरो विनीतो निपुणो निर्विकारो नृपोत्र सः। यस भृत्या यलोसिक्ता भक्ता बुद्धिप्रभाविताः ।। अत्र नैरन्तथैणानेकस्थानोपहतविसर्गत्वेनैव दूषकता । एवं उपहतेत्यादिचतुःषु पतत्सक च बन्धशैथिल्यापादकत्वमेव दृषकतावीजम् । सन्धेरूप्यं त्रिश्लेषः । राजन् ! विभान्ति भवतश्चरितानि तानि इन्दोद्युतिं दधति यानि रसातलेऽन्तः । धीदोर्वले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः ॥ , संकीर्ण गर्भितं प्रसिद्धिहत' इति मु. पु.। ३ क्रमममतपरार्थ च' इति मु. पु. पार।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130