Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
"-.
सप्तम उल्लास नाहा सहित म करोगीनि माया सम्वणि दोषः, प्रगृह्यादिहेतुके स्वसकृत् । हतवृत्तम्-जातयतिभादिरसाननुगुणं च वृत्तम् । यथा
अमृतममृतं का सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसारसं फलम् । सकृदपि पुनर्मध्यस्था सन् रसान्तरविअनो
बदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ - अब हरिणीच्छन्दसि पष्ठे दशमे सप्तदशे यतिरुचिता । चतुर्थे तु पादे 'यदिहान्यत्साई सादः इति यतिमझादश्रव्यम् । नन्वत्रेहान्यशब्दयोः सन्यौ 'अन्तादिवच' इत्यन्तमद् मावाद वा शब्दे यत्तिर्युक्तैव । तदुक्तम् -
पूर्वान्तवत्स्वरः सन्धौ क्वचिदेवं परादिवत् ।
एरव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ इति ।। प्रयोगोऽपि
स्वादस्थानोपगतयमुनासङ्गमेनाभिरामा । इति । तस्माचिन्त्यमेतत् । यथा चा
हा नृप! हा बुध ! हा कविबन्धो ! विप्रसहस्रसमाश्रय ! देव! 1
मुग्धविदग्धसभान्तररल ! कासि गतः क वयं च तवैते ॥ हास्थाप० २४.१व्यञ्जकमद्वत्तम् । न्यूनपदं यथा
स्वयि निबद्धरतेः प्रियवादिनः प्रणयमनपराअखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ॥ अत्रापराधलबमपीति वाच्यम् । अधिकपदं यथा
इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा निकाराः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीनितं रतं वा ।। अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावइति । अत्राकाहाविरहः स्फुट एवं दृषकतावीजम् । कथितपदं यथा
अधिकरतलतल्यं कल्पितस्त्रापलीला
परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ।।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130