Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 66
________________ ४४ काव्यप्रकाशखण्डन चेन्न । अस्माच्छब्दादयमर्थो बोद्धव्य इति शब्दस्य शक्तिग्रहविषयत्वेन विशेषणपदार्थवत् पदस्याप्युप १०२७.१ ]स्थितिः । पदान्तरोपादाने च तदुपस्थित्या स्फुटमेव । तदुक्तम् --- प्रतीत्यन्यथात्वं "न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते ।" इति । प्रक्रमोऽपि न पृथक्, एतस्यानुचितार्थ एवान्तर्भावात् । अक्रमः - न विद्यमानः क्रमो यत्र । यदुत्तरं यत्पदोपादानं युक्तं तदुत्तरं न तत्पदोपादानमित्यर्थः । द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ॥ इत्यत्र वंशब्दादनन्तरं चकारो युक्तस्तदैव तस्याः समुच्चेयता प्रतीतिः । अयमपि न पृथक्, अपदस्थपदमध्येऽन्तर्भावात् । अमतः - प्रकृतविरुद्धः परार्थो यत्र, प्रकृतरस विरुद्धरसव्यञ्जकत्वमित्यर्थः । रसविरोधस्तु - उदा० ant शृङ्गारवीभत्स तथा वीर-भयानको । रौद्राद्भुतौ तथा हास्य-करुणौ वैरिणौ मिथः ॥ इति । राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ सा निशाचरी ताडका जीवितेशस्य यमस्य पक्षे प्रियतमस्य वसतिं गृहं जगाम गतवती । कीदृशी : रामो दाशरथिः स एव यो मन्मथो मनोमथनः, पक्षे कन्दर्पः, तस्य शरेण बाणेन, हृदये वक्षसि ताडिता कृतप्रहारा । दुःसहेन तीत्रेग, गन्धवद् गन्धयुक्तं यद् रुधिरचन्दनम्, रुधिरं रक्तमेव चन्दनम्, पक्षे रक्तचन्दनम् तेनोक्षिता सिता । रामशरसम्बन्धेन पापक्षयाच रुधिरस्य गन्धवत्त्वमिति भावः । अत्र प्रकृतो बीभत्सो रसः । तद्विरुद्धस्य शृङ्गारस्य व्यञ्जकोsपरोऽर्थः । दूषकताबीजं तु शृङ्गाररसव्यञ्जकैर्यदि बीभत्सः प्रत्यायनीयः स्यात्, तदा कथं तस्य परिपुष्टिरिति ध्येयम् । एतस्यानुचितार्थता व्यक्तैवेति अनुचितार्थ एवान्तर्भावः । 9 अथार्थदोषानाह - अपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः || ( सू० का० ५५, ३० ) सन्दिग्धों निर्हेतुः प्रसिद्धिविद्याविरु १० १७. २ ] द्वश्च । अनवीकृतः सनिय मानियमविशेषोऽविशेषपरिवृत्तः ॥ (मू० का ० ५६ ) साकाङ्क्षोऽपदमुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽलीलः ॥ ( मू० का० ५७ )

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130