________________
४४
काव्यप्रकाशखण्डन
चेन्न । अस्माच्छब्दादयमर्थो बोद्धव्य इति शब्दस्य शक्तिग्रहविषयत्वेन विशेषणपदार्थवत् पदस्याप्युप १०२७.१ ]स्थितिः । पदान्तरोपादाने च तदुपस्थित्या स्फुटमेव । तदुक्तम् ---
प्रतीत्यन्यथात्वं
"न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते ।" इति । प्रक्रमोऽपि न पृथक्, एतस्यानुचितार्थ एवान्तर्भावात् ।
अक्रमः - न विद्यमानः क्रमो यत्र । यदुत्तरं यत्पदोपादानं युक्तं तदुत्तरं न तत्पदोपादानमित्यर्थः ।
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ॥
इत्यत्र वंशब्दादनन्तरं चकारो युक्तस्तदैव तस्याः समुच्चेयता प्रतीतिः । अयमपि न पृथक्, अपदस्थपदमध्येऽन्तर्भावात् ।
अमतः - प्रकृतविरुद्धः परार्थो यत्र, प्रकृतरस विरुद्धरसव्यञ्जकत्वमित्यर्थः । रसविरोधस्तु -
उदा०
ant शृङ्गारवीभत्स तथा वीर-भयानको । रौद्राद्भुतौ तथा हास्य-करुणौ वैरिणौ मिथः ॥ इति ।
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥
सा निशाचरी ताडका जीवितेशस्य यमस्य पक्षे प्रियतमस्य वसतिं गृहं जगाम गतवती । कीदृशी : रामो दाशरथिः स एव यो मन्मथो मनोमथनः, पक्षे कन्दर्पः, तस्य शरेण बाणेन, हृदये वक्षसि ताडिता कृतप्रहारा । दुःसहेन तीत्रेग, गन्धवद् गन्धयुक्तं यद् रुधिरचन्दनम्, रुधिरं रक्तमेव चन्दनम्, पक्षे रक्तचन्दनम् तेनोक्षिता सिता । रामशरसम्बन्धेन पापक्षयाच रुधिरस्य गन्धवत्त्वमिति भावः । अत्र प्रकृतो बीभत्सो रसः । तद्विरुद्धस्य शृङ्गारस्य व्यञ्जकोsपरोऽर्थः । दूषकताबीजं तु शृङ्गाररसव्यञ्जकैर्यदि बीभत्सः प्रत्यायनीयः स्यात्, तदा कथं तस्य परिपुष्टिरिति ध्येयम् । एतस्यानुचितार्थता व्यक्तैवेति अनुचितार्थ एवान्तर्भावः ।
9
अथार्थदोषानाह -
अपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः || ( सू० का० ५५, ३० ) सन्दिग्धों निर्हेतुः प्रसिद्धिविद्याविरु १० १७. २ ] द्वश्च । अनवीकृतः सनिय मानियमविशेषोऽविशेषपरिवृत्तः ॥ (मू० का ० ५६ ) साकाङ्क्षोऽपदमुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽलीलः ॥ ( मू० का० ५७ )