SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४३ सप्तम उल्लास इतमपि न साधु । न्यूनपद एवास्थान्तर्भावात् । न च न्यूनपदं पदघटितम् , अनभिहितवाच्यं तु घोतकशब्दघटितमिति अनयो दो वक्तव्य इति वाच्यम् । यत एतादृशि यत्किञ्चिद्: भेदकल्पने दोषाणामानन्त्यं स्यात् ।। गर्भितं यत्र वाक्यान्तरमध्ये वाक्यान्तरमनुप्रविशति - परापवादनिरतैजनैः सह सङ्गतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ अन तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । अयं न पृथक, अम्यानस्थ एवान्तीवात् । प्रसिद्धिपरिहीनं प्रसिद्धादन्यन्न प्रयुक्तम् । प्रसिद्धिपरिहीनं यथा महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगार्जतप्रतिरवा(रुता )नुकारी मुहुः। रवा श्रवणभैरवः स्थगितरोदसीकन्दरः [प० २६. २ ] कुतोऽद्य समरोदधेश्यमभूतपूर्वः पुरः ॥ अघ समरोदधेः सङ्घामसमुद्रात् पुरः अग्रप्रदेशे रवः शब्दः मुहुर्वारं वारं कुतो हेतोर्वर्तत इति शेषः । कीदृशः ? महाप्रलयाय यो मारुतः पवनः स महाप्रलयमारुतः, तेन क्षुभितः इतस्ततः प्रेरितः, पुष्करावर्तकः पुष्करावर्तसज्ञकः प्रचण्डः प्रौढो यो घनो मेघस्तस्य यद गर्जितं शब्दविशेषस्तस्य यत् प्रतिरुतं प्रतिध्वनिस्तदनुकारी तत्सदृशः । श्रवणयोः श्रोत्रयोभैरवः कटुः । स्थगितः पूर्णः रोदसी द्यावाभूम्योरन्तरं मध्यं तदेव कन्दरा येन सः । अभूतपूर्वः पूर्व अजात इत्यर्थः । अत्र रवो मण्कादिध्वनिषु प्रसिद्धः । न तुक्तरूपे सिंहनादे । - ममः प्रक्रमः प्रस्तावो यत्र । यथा -- नाये निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता । कुलाङ्गनानां हि दशानुरूपं नातःपरं भद्रतरं समस्ति ।। अत्र गतेति प्रक्रान्ते यातेति कृते प्रक्रमो भग्नः । गता निशापीति तु युक्तम् | ननु कथितपदस्य दुष्टत्वाभिधानात् कथमेकस्य पदस्य द्विःप्रयोग इति चेद् , उच्यते - उद्देश्यप्रतिनिर्देश्यन्यतिरिक्त एवं विषये एकप्रयोगस्य निषेधात् । प्रत्युत तादृशि विषये तस्यैव पदस्य सर्वनानो वा प्रयोग विना दोषः । तथा हि - उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्ती च महतामेकरूपता ॥ अत्र रक्त एवेति यदि कियते तदा पदान्तरप्रतिपादितः स एवार्थः अर्थान्तरतयेत्र भासमानो नैकरूप्यमावति । ननु पर्यायशव्दानां शक्यतावच्छेदकैक्यनियमात् कथमन्यत्वेन प्रतीतिरिति चेत् , उच्यते - यन्मते शाब्दबोधे शब्दो भासते तन्मते रकादिशब्दान्तरस्य भानात् ऐकरूप्यासंभवात्, इदमपि न । शाब्दबोधे शब्दभाननैयत्याभावादिति
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy