________________
४२
काव्यप्रकाशखण्डन मानः वाञ्छति । धिग् इति क्रोधादिय आलोहितः आरक्तः । पुनः कीदृशः!-प्रोद्यदीप्यमानः दूरतरं प्रसारितो विस्तीर्णः करो इस्तो चेन इत्यर्थः । अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुतौ तु कृतः । अर्धा-तरैकवाचकं द्वितीयार्द्धगतैकशेष प्रथमार्द्धम् । यथा
मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । शदिति जनकली लोचनैरवपणः
___पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥ भुः सदर्भा, तत् तस्मात् , लघु चरणप्रक्षेपं यथा स्यात् तथा गम्यताम् । धर्मः आतपः कठोरः, तस्मान्मूर्ध्नि मस्त के सिचयान्तं उत्तरीयान्तं बितरत(विरचय ?) देहि । इत्यनेन प्रकारेण पथि मार्गे पथिकवधूभिः पथिकस्त्रीभिः जनकपुत्री सीता शिक्षिता उपदेशं प्रपिता अश्रुपूर्णर्लोचनैर्वीक्षिता अवलोकिता चेत्यर्थः । अत्र भूः सदर्भा तन्मसूणचरणपातं गम्यतामिति अन्वये अनासत्तिरेव दूषकताबीजम् ।
अभवन्मत इष्टो योगो सम्बन्धो यत्र, तत् तथा । विवक्षितसम्बन्धबोधं प्रति खरूपायोग्य. मिति याक्त् । तेन विधेयाविमर्षे(शें )नातिव्याप्तिः । तत्र रचनान्यथात्वेऽपि विवक्षित. सम्बन्धोपपत्तेः । तत्र वैभक्तिकोऽन्वयो भवत्येव । अत्र तु सोऽपि नेति विशेषाञ्च । यथा
जज्बाकाण्डोरुनालो नखकिरणलसत्केसरालीकराला
प्रत्यग्रालक्तकाभाप्रसरकिसलयोम मञ्जीरभृङ्गः । भत्तुनृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी
सम्भृताम्भोजशोभा विदधदभिनवो दण्डपादो भवान्याः ।।[५. २६.११ भवान्याः पार्वत्याः दण्डपादः, 'प्रसझोीकृतः पादो दण्डपादोऽभिधीयत' इत्युक्तलक्षणो जयति । कीदृशः ? जवाकाण्ड एव उरुः अतिशयितो नालो यत्र, नखकिरणरूपा लसन्ती केसराणां आली परम्परा तया करालो दन्तुरः, प्रत्ययं नूतनं यदलक्तकं तस्य आमा कान्तिस्तस्य प्रसरो विस्तारः स एव किसलयो यत्र, मञ्ज मनोहरं यन्मश्रीरं तदेव भृङ्गो यत्र, भर्तुमहेश्वरस्य यत् नृतं तस्यानुकरणे । पुनः कीदृशः निजा स्वकीया या तनुः पार्वतीशरीरं तदेव या खच्छा निर्मला लावण्यवापी सौन्दर्यदीर्घिका ततः संभूतं यहम्भोज कमलं तस्य शोभा सौन्दर्य दधत् । अभिनयो नूतनः इत्यर्थः । अत्र दण्डपादगता निजतनुः प्रतीयते भवानीसम्बन्धिनी तु विवक्षिता निजस्वात्मादिशब्दानां प्रधानक्रियान्वितान्वयित्वव्युत्पत्तेः । इदं न ज्यायः । काव्बाकाव्यसाधारणस्यास्य काव्ये विशिष्योत्कीर्चनस्यान्याय्यत्वात् । अनभिहितवाच्यं तत् , अवश्यवाच्यमनुक्तं यत्र ।
त्ययि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराभुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ।।